________________
[है० ५.२.७४.]
द्वादशः सर्गः।
लादिप्रेरणशीलान्प्रजविनश्च वेगवतश्च भटानतियन्त्यतिप्रेरकत्वादतिवेगवत्वाच्चातिशेरत इतिशीला ये तैः ॥ परिभव्यनादर्यसमाक्षयित्विड्वमिवक्रजय्यभ्यमिघरैस्तैः । पिशिता रैरव्यथिभिद्रुपैण्डं सृमरैः सरिद्विश्रयि चात्र मुक्तम् ॥४०॥
४०. तैः पिशिता रैसिभक्षकै राक्षसैः सरिद्विश्रयि सरस्वतीतटस्थं द्रुपैंण्डं वृक्षौघोत्र जयसिंहबलोपरि मुक्तम् । किंभूतैः सद्भिः । परिभविष्वरिष्वनादरिणोवज्ञापरा असमाक्षयिणोक्षीणबला अस्थानवो वा त्विड्वमिवक्राश्वाग्निज्वालामोचिमुखाश्च ये जय्यभ्यमिघस्मरा जयिनो जिष्णूनप्यभ्यमन्ति जयाय साध्वभिमुखं गच्छन्ति ये तेषामपि घस्मरा अतिबलिष्ठत्वात्क्षयं नेतारस्तैरत एवाव्यथिभिः शत्रुभ्योभीरुभिरत एव च सृमरैः प्रसरणशीलैः ॥
वराक । भिक्षाक । लुण्टोकः । जल्पाक । कुट्टाक । अत्र "वृद्धि(शि?). क्षि." [ ७० ] इत्यादिना टाकः ॥
प्रसवि । प्रजवि । इत्यत्रं "प्रात्सूजोरिन्" [१] इतीन् ॥
जयि । अत्ययिभिः । अनादरि ॥ क्षीति क्षिक्षितोर्ग्रहणम् । असमाक्षयि । विश्रयि । परिभवि । वमि । अभ्यमि । अव्यथिभिः । अत्र "जीण्डक्षि०" [७२ ] इत्यादिना-इन् ।
सृमरैः । घस्मरैः । अनरैः । अत्र "सृघसि." [ ७३ ] इत्यादिना मरक् ॥ अविभङ्गुरान्भासुरमेदुराङ्गा विदुश्छलानां नृभटान्निशाटाः । भिदुरेतरानच्छिदुरा अभीरूनविभीलुका भीरुकतामनैषुः॥४१॥
१ ए मिविक्र. २ ए स्मरोस्तः । पि°. सी डी स्मरौस्तेः । पि०. ३ बी सी डी रास्थला'. * बी पुस्तके समासे 'ख' इति प्रदर्शितं तदेव युक्तम् ।
१५ °तिप्रेरकत्वादतिवे'. २ ए च ज ये. ३ ए सी डी टाक । ज. ४ पत्र पूत्सजो.