________________
[ है ० ५.२.६६.] द्वादशः सर्गः।
८५ संरोधि । अनुरोधिनः । विरोधि । अवरोधिनः । अत्र "समनु०" ३] इत्यादिना घिनण् ॥ विदाहिनः । अत्र “वेर्दहः" [६४ ] इति चिनण् ॥
परिदेविनः । परिमोहि । परिदाहि । इत्यत्र "परे०" [ ६५ ] इत्यादिना घिनण् ॥ रजसा परिक्षेप्यनिलो द्रुपणैः परिराटिभिर्दाक्परिराटकोथ । परिवादको द्योर्वयसां परिक्षेपकहिंसकक्लेशकैखादकोभूत् ॥ ३७॥
३७. अथ राक्षसानां रणायाभिमुखगमनानन्तरमनिलो वायु गभूत् । कीदृक् । रजसा परिक्षेपी तीव्रत्वेन सर्वतः क्षेप्ता । तथा परिराटिभिस्तीबवातवशेन खरस्वरत्वाद्रक्षसां राटिं ददानैरिव द्रुपणैः कृत्वा परिराटको राटिदानशील इव तथा चोर्योम्नः परिवादको वंनयिता तथा वयसां पक्षिणां परिक्षेपकहिंसकक्लेशकखादकः । रक्षसामरिष्टसूचको वायुर्वात इत्यर्थः ।। प्रचुर्लुम्पकास्यकनिन्दकव्यादिकभापकैस्तीर्थविनाशकैर्भूः। परिदेवकाक्रोशकयुद्धकण्डूयितृभिर्निशाटैरचलचलद्भिः ॥ ३८ ॥ ___३८. निशाटैश्चलद्भिः सद्भिर्भूरचलच्चकम्पे । कीदृशैः । प्रचुलुम्पका मुनीनामुच्छेदिनोसूयका मत्सरिणो निन्दकाश्च ये व्यादिकभाषका व्याभाषका विरुद्धवादिनस्तैः । तथा तीर्थविनाशकैस्तथा परिदेवकानां हा देवाधुना कथं भविष्याम इति विलापिनां भीरूणामित्यर्थः। आक्रो१ डी कस्वाद. २ ए लुपका'. ३ ए डी स्तीर्थवि.
१ ए बी घिनिण. २ ए बी घिनिण. ३ ए बी घिनिण. ४ डी राटिं दा. ५ ए सी डी द्योन्योम्नः. ६ डी ध्वनियि'. ७ बी भाषिका. ८ डी °था प०. ९ए डी वानाधु.