________________
८४ व्याश्रयमहाकाव्ये
[जयसिंहः] सरस्वत्यां संवासी स्थातायं राड् जयसिंहो मृत्युपथप्रवासी यममार्गावस्थाय्यस्त्विति ॥ अभिचारिणो विश्वविरोधिसंरोध्यवरोधिनः खाम्यनुरोधिनस्ते । परिदाहिवकाग्निविदाहिनो द्राक्परिमोद्यपिस्तीपरिदेविनोमुः ३६
३६. ते राक्षसा द्रागंभिचारिणो रणायाभिमुखमागन्तारः स. न्तोभुः । किंभूताः । विश्वविरोधिनां समस्तवैरिणां ये संरोधिनोति. बलिष्ठत्वात्प्रतिबन्धकास्तेषामप्यवरोधिनः प्रतिबन्धकास्तथा स्वाम्यनुरोधिनः स्वामिन्यनुकूलास्तथा दिव्यशक्त्युपेतत्वात्परिदाहिना सामस्त्या. दहनशीलेन वकाग्निना मुखानिःसरता वह्निना विदाहिनस्तथा परिमोहिन्यः स्वभर्तृस्नेहला या ऋषिखियस्तासां परिदेविनस्तत्पतिवधेन विलापयितारः ॥
अविवेकि । विकत्थी । विन(श्र)म्भि । प्रविकाषि । प्रविकासि । विला. सिनी । विघाती । इत्यत्र "वेर्विच." [५९ ] इत्यादिना घिनण् ॥
विलाषी । अपलाषी। अमिलाषी । इत्यत्र "व्यप०" [६० ] इत्यादिना घिनण् ॥ संवासी । प्रवासी । इत्यत्रं "संप्राद्वसात्" [६] इति घिनण् । संचारि । अतिचारि । अपचारिणः । अमिचारिणः । अव्यभिचारि । इत्यत्र "समति०" [६२ ] इत्यादिना धिनण् ॥
१ए °ध्यविरों'.
१ ए सी न्तार स° डी 'न्तारं स'. २ एशियपे'. ३ सी टी स्यादह. ४ ए सरिता. ५ ए डी सम्भिः । प्र. ६ सी कासि । वि. ७ ए बी पिनिण.
एबी घिनिण. ९एत्र वेर्विचेत्यादिना घिनिण् । संवासी । प्रवासी । इत्यत्र संप्रा. १० ए बी घिनिण्. ११ए अप'. १२ ए घिनिण.