________________
ब्याश्रयमहाकाव्ये
[जयसिंहः] ३३. अथ तद्बलं ते राक्षसैबर्बरकाख्याय नेत्रे स्वस्वामिने कथितम् । किंभूतम् । परिवादि रक्षसां दूषणशीलं संज्वारि कोपेन संतपनशीलं तथा विसर्गिसंसर्गि त्यागिभिर्युक्तम् । एतेन वृत्त्यविच्छेदभणनेन स्वामिकार्य एव तत्परत्वं सूचितम् । तथानुवाद्येकत्र स्थान एवमेवं राक्षसा हनिष्यन्त इत्यादौ कैश्चिद्भटैरुक्तेनु पश्चाद्वदनशीलमेकत्र च स्थाने संवादि रक्षोवधायुपायविषये मिथः संवदनशीलं कुत्रापि चोचैरत्यन्तं विवादि चाहो भवद्भिः कथमुक्त राक्षसा हन्तुं न शैक्यन्ते यतस्ते ममाग्रे क इत्यादिविवदनशीलं कुत्रापि प्रवादि दर्यात्प्रकर्षेण वदनशीलं सिंहनादं कत्रित्यर्थः ॥
प्रयामी । भायामि । अप्रयासी । अनायासि । इत्यत्र "प्राञ्च०" [५२] इत्यादिना धिनि(न) ॥ प्रमाथी । प्रलापि । इत्यत्र "मथेलपः" [५३] इति घिनण् ॥ विद्रावि। प्रद्रावि । इत्यत्र "वेश्च द्रोः" [५४ ] इति धिनि(न) ॥
विसार । परिसारि । प्रसारि । इत्यत्र “विपरि०" [५५ ] इत्यादिना धिनि(न) ॥
संपर्कि । संज्वारि । इत्यत्रं "समः" [५६ ] इत्यादिना घिनि(न) ॥ केचिण्ण्यन्तादपीच्छन्ति । संज्वरिमिः ॥ त्वरयतेरपि कश्चित् । संत्वरिमिः ॥ संसर्गि । विसर्गि । इत्यत्र "संवेः सृजः" [५७ ] इति धिनण् ॥
संवादि । परिवादि । अनुवादि । विवादि । प्रवादि । इत्यत्र “संपरि०" [५८ ] इत्यादिना घिनि(न) ॥
१ ए सी डी घेदेक°. २ ए °श्चिद्भाटैरक्ते'. सी °श्चिद्भाटै'. ३ बी श. क्ष्यन्ते. ४ बी दि व. ५ ए सी डी थयपः. ६ ए सी डी घिनिण । वि. ७ डी वि । इ. ८ डी रि । प्र. ९सी रि । ई. १० सी डी'त्र मथयप इति ना. ११ ए डी धिनिण. सी घिण्. १२ सी दि° । अ°.