________________
ब्याश्रयमहाकाव्ये
[जयसिंहः] ____२९. शमिपु जितेन्द्रियेषु दमिषु तपःक्लेशसहेष्वनुन्मादिषु निरहंकारेषु योगिऍ मुनिषु मध्ये कोपि नाजनि । कीदृक् । तमी रक्षोभयेन मनःपीडावान् । क्लमी धात्वपचयवान् । श्रमी खेदवान् । भ्रमी वा मूर्छावान्वा । किं कृत्वा । क्ष्माभुजि जयसिंहे द्वेषिवधाय तं यत्नमादरं वीक्ष्य । किंभूते । क्षमिभागिणि क्षमिणो मुनीनायितरि तथा त्यागिनि दातरि तथा रागिणि मुनिष्वनुरागिणि ।। अथ दोपिणां द्रोह्यवनेः स भोगी यमुना नु दोही हरिरापगांताम् । भृशमापदाक्रीड्युपतीर्थमामोष्यभिसर्पदभ्यादिकघात्युपाटाम् ३०
३०. यथा दोही दोहनशीलो गोपवेषधारी हरिविष्णुर्यमुनामापत्तथावनेोगी रक्षिता स जयसिंहस्तां राक्षसाक्रान्तत्वेनोक्तामापगां भृशमापत् । कीदृक्सन् । दोषिणामन्यायिनां रक्षसां द्रोही जिघांसुरत एवोपतीर्थमवतारसमीप आक्रीडी रन्ता सरस्व-स्तीथे प्रापेत्यर्थः । किंभूताम् । आमोषिणश्चौरा अभिसर्पन्तोभिमुखं गच्छन्तोभ्यादिकघातिनोभ्याघातिनोभिमुखमाहन्तार उषाटा राक्षसा यस्यां ताम् ॥
शमि । दमि। तमी। श्रमी । भ्रमी । क्षमि । अनुन्मादिषु । लमी । इत्यन्न "शम." [५९ ] इत्यादिना घिनण् ॥
१ए दिघात्युषष्टाम्.
१ सी पु म. २ सी डी मी स्वेद'. ३ बी 'स्तां रक्ष. ४ ए मीपी आ°. सी डी मीपं आ. ५ सी स्वत्यां तीथे. डी स्वत्यां तीर्थ प्रा० ६ ए त्या तीथें. ७ए "रा आमि'. ८ डी नोभ्याघातिनोभि'. ९ए उटाटा. १. ए यस्या ता, बी यस्याम् ॥. ११ए बी पिनिण्. सी घिनेण्.