________________
७८
ध्याश्रयमहाकाव्ये
[ जयसिंहः ]
चलनः । अविकम्पनः । शब्दन । रवण । इत्यत्र "चाल." [१३] इत्यादिना-अनः ॥ अकर्मकादिति किम् । चम्पान्वदिता ॥ अनिवर्तनस्पर्धनचेतना द्रागर्जुगुप्सना भावयितार आजौ । अभिमूदितयितदीपितारो रणदीक्षितारोस्य बभुश्चमूपाः ॥२६॥
२६. अस्य राज्ञश्चमूपाः सेनान्यो बभुः । किंभूताः सन्तः । अनिवर्तनाः कुलीनत्वाच्छूरत्वाच्च रणान्न निवर्तनशीलाः स्पर्धनाः शत्रुभिः सह स्पर्धनशीलाश्चेतना ज्ञातारः कलाकुशला इत्यर्थः। एषां विशेषणकर्मधारयः । अत एव रणदीक्षितारो रणोस्माभिः कार्य एवेति रणविषये गृहीतव्रता अत एवाजावजुगुप्सनाः श्लाघनाः सन्तो द्राग्भावयितारः प्रापणशीला अत एव चाभिसूदितारः शत्रून्हिसितारः कूयितारः सिंहनादं कर्तारो दीपितारस्तेजसा दीपाश्च ॥
स्पर्धन । अनिवर्तन । इत्यत्र “इङित." [४४] इत्यादिना-अर्नेः ॥ णेरतश्च विषय एव लोपे व्यञ्जनान्तत्वादिहापि स्यात् । चितिण् । चेतनाः । अजुगु
प्सनाः ॥
भावयितारः । क्लूयित । सूदितृ । दीपितारः । दीक्षितारः । अत्र "न णित्य." [५५] इत्यादिना नानः ॥ बलपृष्ठभूचङ्कमणा भयेन भवंदाश्रमोहन्द्रमणः क सोध । क नु यायजूकेषु स दन्दशूकः क नु जञ्जपूकेषु स दन्दहूकः २७ अनिजागंदूकेष्वपि तापसोधेष्विति वावदूका रिपुपम्पशूकाः । अभिपापयूका युदनानशूका जयजागरूकाः सुभटा ववल्गुः २८
१ ए 'जुगप्स. २ ए डी °वताश्र.. ३ ए बी क न या. ४ ए सी डी गड़के.
१ ए डी 'त्र भाल. २ ए एवजा. बी एव चाजा'. ३ सी 'नान । णे. डी नान णोरित. ४ बी नः । गैर०. ५ ए सी डी णित्या.