SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [ है० ५.२.४२.] द्वादशः सर्गः। अविशोचनैरापतनैः समं तैश्चलनः स लीलापदनः प्रतस्थे । अविकम्पनः सजितशब्दनेभान् वणाश्वमैन्यान्वदिता चम्पान् ॥२५॥ २५. स नृपः प्रतस्थे । कीडक्सन् । निर्भीकत्वादविकम्पनोत एव लीलापदनो लीलायाः सेविता सविलास इत्यर्थः । तथाविशोचनैर्नृपेणाश्वासितत्वाच्छोकरहितैरापतनै राक्षसान्दर्शयितुं साध्वागच्छद्भिस्तैस्तापसैः समं रक्षोवधाय चलनोत एव चमूपान्वदिताकारयिता । किंभूतान् । सजिताः प्रगुणीकृताः शब्दना जयसूचकत्वालैंहितकरणशीला इभा यैस्तान् । तथा रवणं जयसूचित्वाद्धेषणशीलमश्वसैन्यं येषां तान् । सस्रौ । उपचक्रि । दधौ । जज्ञि । नेमि । इत्येते "सनि." [३९] इत्या. दिना निपात्याः ॥ शारुकः । कामुकी । अमिगामुक । धातुकः(के)। वर्षकम् । अभिभावुक । स्थायुक । इत्यत्रे "शकम०" [४०] इत्यादिनोकण ॥ अमिलाषुकः । उत्पातुक । उपपादुकः । इत्यत्र "लष०" [४१] इत्यादिनो. कम् ॥ भूषणः । मण्डनः । क्रोधनः । कोपनः । जवनैः । सरणः । गर्धनः । ज्व. लनः । अविशोचनैः । संलषणः । आपतनैः । पैदेरिदित्वादुत्तरेणैव सिद्धे सक मैकार्थ वचनम् । लीलापदनः । अत्र "भूषा." [१२] इत्यादिना-अनः ॥ १ ए शब्दिता ज. डी शब्दिना जं. २ डी रणाशी'. ३ सी मुका । अ. ४ बी सी वुकः । स्था'. ५ ची 'त्र सूक. ६ ए पाटुके । ई. सी डी 'पादुके । इ. ७ बी विशौच. ८ सी डी परि . ९ डी रेणेव,
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy