SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७६ व्याश्रयमहाकाव्ये [ जयसिंहः ] नैवाधिज्यं जज्ञि भवनशीलं यतो मम विनयमभ्युत्थानादि दधौ कर्तरि तथा नेम्युपचक्रिसस्रौ नेसौ नन्तर्युपचक्रावुर्पकर्तरि सस्रो गन्तरि मां सेवितरीत्यर्थः ॥ रिपुशारुको मे जयलक्ष्मिकार्मुक्यभिलाषुकोसावुपपादुकोसिः । अभिगामुकोत्पातुकराक्षसास्त्रैः क्षितिमण्डनो मद्भुजभूषणोस्तु ॥२३॥ ___२३. असौ मद्भुजभूषणोसिरभिगामुका बलावलेपात्संमुखागामिन उत्पातुका उत्पतनशीला ये राक्षसास्तेषामौ रक्तैः कृत्वा क्षितिमण्डनोस्तु गलद्भिः शोणितविन्दुभिर्भूमि भूषयत्वित्यर्थः । कीदक्सन् । मे जयलक्ष्मिकामुक्यभिलापुको जयश्रीकामिन्या इच्छुरत एव रिपुशारुकः शत्रूणां हिंस्रोत एव चोपपादुको युक्तः श्रेष्ठ इत्यर्थः ॥ न न कोपनः क्रोधन एव तेषु न न गर्धनः संलपणो जयस्य । सरणोमि तस्मिञ्जवनेहयरित्यभिधाय सोतिज्वलनोभ्युदस्थात् ॥२४॥ २४. अतिज्वलनः कोपेन प्रतापेन वातिदीप्रः सन्स नृपोभ्युदस्थात् । किं कृत्वा । अभिधाय । किमित्याह । अस्म्यहं जवनैवेगवद्भिहयैः कृत्वा तस्मिन् राक्षसेशविपये सरणः साधु गन्ता । कीहक्सन् । जयस्य न न गर्धनो लिप्सुः किं तु संलषणो लितुरेवात एव तेषु राक्षसेपु न न कोपनः किं तु क्रोधन एवेति ॥ १ ए सी डी मुकामि'. २ ए पाटुको'. ३ डी रिचय. __ १ ए तो सम वि. २ ए सी डी पधाक. ३ ए सी डी उजीवन'. ४ ए सी डी 'न् । विज'. ५ ए सी डी मुकोमि'. ६ बी शारकः. ७ ए रा-श. सी डी राक्षसवि'. ८ गन्तः । की.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy