SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [है. ५.२.३१.] द्वादशः सर्गः। ७३ यस्माद्भवद्भिः स्थास्नुमनोभिः स्थिरचित्तैः सद्भिरद्य यावन्म्लास्नुभिर्धर्मानुष्ठानविनात्परिम्लानमुखैः सद्भिरापदि कष्टे स्थितम् । किंभूतैः । परिमाणुभिस्तीर्थजलेषु स्नानेनात्मनो विशोधकैः। तथात्मना पक्ष्णुतया स्वयंपाकितयाग्लास्नुभिर्धर्मार्थित्वेन हर्षात्स्वयंपाकिभिरित्यर्थः । यद्यहं प्रचण्डोक्षीणबलश्चाभविष्यं तदा यूयं नैवमापद्यपतिष्यत । तस्मान्मे धिक्कारोस्त्वित्यर्थः ॥ निदिदिक्षवः क्षिप्णव आशु नो यत्तदु विन्दवस्त्रस्नुकगृभुकं माम् । यश इच्छुराशंखशरारुभिक्षूननु वोमि वन्दारुरसद्बुदारुः ॥१९॥ १९. उ हे मुनयो यद्यूयमाशु मां नो निदिदिक्षवः क्षपाचरवधाय नाज्ञापयितुमिच्छवोभवत । न च क्षिप्णवः प्रेरणशीला अभवत तन्मन्ये मां त्रस्नुकगृनुकं विशेषणकर्मधारये कुत्सितंभीरं(रु ?) कुत्सितलोभिनं च यूयं विन्दवो ज्ञातारोभवत । न च वाच्यं वयमिदं सत्यं विन्दव इति । यतो नन्वित्यामत्रणेनुनये वा । अस्म्यहं यश इच्छुः सन्वो युष्मान् वन्दारुरभिवादकः । एतेन स्वस्यागृध्रुतोक्ता । तथासद्रुरखिद्यमानः सन्दारुः पालयिता च । एतेन चात्रस्नुतोक्ता । यतः किंभूतान्वः । आशंसवो धर्मविद्यार्नुपघातादिमिच्छवोशरारवः स्वयमहिंसनशीलाश्च ये भिक्षवो भिक्षाचरास्तान् ।। जनधारुसेरुः स्वयमेष शद्रुः पतयालुको दीर्घतरं शयालुः । इति वा भवद्भिः स उपैक्षि धर्मगृहयालुश्रद्धालँदयालुचितैः ॥२०॥ १ ए सी डी रुशेरुः. २ सी डी 'गृहालु'. ३ डी लुचि. १ सी डी स्थाष्णुम'. २ ए सी डी 'वन्माष्णुमि'. ३ डी 'माष्णुभि. ४ बी ततस्तस्मा. ५ ए बी सी धिक्कारो०. ६ ए सी डी धेः । मिदि. ७ ए सी डी नो मिदि. ८प °लुकं गृ. ९बी तलों. १० ए बी नुका .
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy