SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [ है ०५.२.२८. ] द्वादशः सर्गः । घीर्यते पठन्त्यसुनपि प्राणानपि कृच्छ्रतो धारयन्ति तत्तस्मादनयं विधातृन्करणशीलांस्तान्मनुजान शितैन्भक्षणधर्मात्राभसान्निहन्ता साधु हिंसिता भव यतस्त्वमनयं द्विषन् । मनुजानशितृनिति पाठस्थानेशितृन्मनुष्यानिति मनुजाशितुंस्त्वमिति वा पाठो यदि स्यात्तदा छन्दोभङ्गो न स्यात् । यावद्दृष्टप्रतिषु च मनुजानशितृनित्येव पाठः ॥ चूलां वहमानः । ऐभं दलमानः । आत्मानमशंसमानः । अत्र "वैयः ० " [ २४ ] इत्यादिना शानः ॥ 'वारयन् । अधीयतः । अत्र "धारी ०" [२५] इत्यादिनातृश ॥ भकृच्छ्र इति किम् । कृछ्रतो धारयन्ति । कृच्छ्रतोधीयते ॥ सुन्वत् । द्विषन् । अर्हन् । इत्यत्र “सुग्०" [२६] इत्यादिनातृश् ॥ विधातृन् । मनुजानशितॄन् । निहन्ता । इत्यत्र "तृन् ० " [२७] इत्यादिना तृन् ॥ ७१ प्रजनिष्णुरोचिष्णुरदप्रभाभिः खमलंकरिष्णुः क्षितिपोसहिष्णुः । प्रचरिष्णुरक्षांसि निराकरिष्णुर्निजगाद भ्राजिष्णुरपत्रपिष्णुः १६ १६. क्षितिपो जयसिंहो मुनीनिजगाद । कीदृक्सन् । अपत्रपिष्णुर्मुनिवचः श्रवणालज्जालुरत एव प्रचरिष्णुरक्षांसि प्रसृमरान्राक्षसानसहिष्णुरत एव निराकरिष्णुस्तथा प्रजनिष्णुरोचिष्णुरदप्रभाभिरुद्धविष्णुदीप्रदन्तकान्तिभिः कृत्वा खमलंकरिष्णुरत एव भ्राजिष्णुः || ननु शान्तिवर्तिष्णुभिरुत्पदिष्णुः प्रभविष्णुवर्धिष्णुबलोन्मदिष्णुः । जगदुत्पचिष्णुर्वियदुत्पतिष्णुर्मयि जिष्णुभूष्णौ किमुपैक्षिं सर्वैः १७ १७. जिष्णुभूष्णौ जिष्णोरिन्द्राद्भूष्णु रर्जुनस्तत्तुल्ये मयि सति न१ ए 'राधार'. २ ए° क्षित सर्वोः ॥ . १ बी यन्ते प ० . २. ३ बी 'जासितुं. ४ सी डी व इ.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy