________________
घ्याश्रयमहाकाव्ये
[जयसिंहः] क्रव्यभुजो नु पश्यामि । किमदर्शीरुणं न्वदर्शम् । अत्र "नन्वोर्वा" [१८] इति वा वर्तमाना॥
अस्ति । क्षपामः । अत्र “सति" [१९] इति वर्तमाना । उदयन् । विराजमानः । ब्रुवाणाः । समुदेष्यत् । अत्स्यमानाः । अत्र "शतृ." [२०] इत्यादिना शत्रानशौ भविष्यन्तीविषयेर्थे च स्यसंहितौ ॥ माश्रयन्तः । मा स्तुवानाः । अत्र "तौ०" [२१] इत्यादिना शनानशौ ॥ विद्वान् । विदन् । इत्यत्र "वा वेत्तेः कसुः" [२२] इति वा क्वसुः ॥ पवमान । यजमान । इत्यत्र "पू." [२३] इत्यादिना शानः ॥ चुलुकेषु चूलां वहमान ऐभं दलमान आत्मानमर्शसमानः । इह धारयन्क्ष्मावलयं स को यः स न पाति सिद्धान्तमधीयतोमान्
॥१४॥ १४. सिद्धान्तमधीयतोकृच्छ्रेण पठतोस्मान्यो न पाति स्म न ररक्ष स इह पृथ्व्यां चुलुकेपु मध्ये चूलां शिखां वहमानोपि । अपिरध्याहार्यः । वोढुंबया अपि बालोपि कः । चौलुक्यो बालोप्यस्मान् ररक्षेत्यर्थः। कीहक्सन् । महापुरुषत्वादात्मानमशंसमानोश्लाघनशीलस्तथातिविक्रान्तत्वादैभं गजौघं दलमानो विदारयितुं शक्तोत एव क्ष्मावलयं धारयन्नकृच्छ्रेण पालयन्नित्यर्थः । यदधीयतेमूनपि धारयन्ति बत कृच्छ्रतोमी नृप सुन्वदर्हन् । अनयं द्विषंस्ताननयं विधातृन्मनुजानशितॄन्भव तन्निहन्ता ॥१५॥
१५. बत हे नृप सुन्वदर्हन् सुन्वत्सु यजमानेष्वहन श्रेष्ठत्वेन पूजाई यद्यस्मादमी अस्मल्लक्षणा जनाः कृच्छ्रतो राक्षसभयात्कप्टेना
१ वी स्ति । क्षिपा. २ बी ‘ष्यन् । अ. ३ ए डी कसु । ५. सी कसुः प०. ४ ए यस्मा. सी डी यदयस्मा'.