________________
[है. ५.२.१८.] द्वादशः सर्गः। किमच्छिद इति प्रों । आह । भृशमत्यर्थं नाच्छिदमहं समिधः कुशांश्च । यत्त्वं नाच्छिदस्तत्किमाः कष्ट क्रव्यभुजो राक्षसांस्त्वमदर्श इति प्रश्ने। आह । नु इति पृष्टप्रतिवचने । पश्याम्यदर्शमित्येवंविधा ।। किमदर्श उच्चररुणं न्वदर्शमुदयन्नसावस्ति विराजमानः । समुदेष्यद्रर्काग्र इति बुवाणाः क्षणदां क्षपामः क्षणदाचराताः १२
१२. वयं क्षणदां रात्रि क्षपामः । किंभूताः सन्तः । त्रुवाणाः । किमित्याह । अहो त्वं किमरुणं सूर्यसारथिमरुणोदयमदर्श इति प्रश्ने। आह । न्वदर्शम । कासावमग इत्याह । समुदेष्यदर्काग्र उदेष्यतो रखेः प्रथमं विराजमानोरुणिम्ना शोभमानोसौ प्रत्यक्षोरुण उदयन्नस्तीति । यतः क्षणदाचरार्ताः । रात्रिंचरा हि रात्रा उपद्रवन्तीत्यरुणोदयं काङ्क्षन्त इत्यर्थः ॥ वयमत्स्यमाना रजनीचरैश्चेदिह माश्रयन्तो वत मा स्तुवानाः । यदि नीतिविद्वान्समयं विदंस्तान्यजमानहन्याः पवमानजीजाः १३
१३. चेद्यदि वयं रजनीचरैरत्स्यमाना ग्रसिष्यामहे तदा बतेति खेदे । इह त्वय्याधारे वयं माश्रयन्तो माश्रयणं कुर्वन्तस्तथा मा स्तुवाना मा स्तवनं कुर्वन्तस्तदा तवाश्रयणं स्तवनं च निष्फलमित्यर्थः । तस्माद्यदि त्वं नीतिविद्वान् नीतिशास्त्रेपु कोविदः समयं सिद्धान्तं विदंश्च जाननसि तदा हे यजमान यज्ञस्वामिस्तान् रजनीचरान्हन्याः । यतः पवमानजौजा हनूमानिव बलिष्ठः ॥
समिधोच्छिदः किं नच्छिनदि । कुशमंच्छिदः किमच्छिदं न । किमदर्शः
१बी ‘मच्छद. २ ए सी डी क्षमास्त्व'. ३ सी डी र्श यति. ४ ए विधाः ॥. ५ बी "त्रि क्षिपा. ६ ए सी °दये का. डी दयो का. ७सी हत इ. ८ वी श्रयं कु. ९ सी तथाश्र. १० सी डी मच्छदः.