________________
[ है• ५.२.१४.] द्वादशः सर्गः। क्षेपेद्योतको वा। जघान च तथा शश्वद्रुभुजे भक्षितवांश्च । यथा वा स प्रसिद्धः खरो नाम राक्षसः । इतिहेति निपातसमुदायः प्रवादपारम्पर्ये । लोकान्यहञ् शश्वदभुत च ॥ किमवेवमेतत्स्मरसीश यस्यामितिहापठामोपगुरु त्रिवेदीम् । सरसीह शश्वव्यवसाम यस्यां रजनीचरैयापि सरस्वती सा॥८॥
८. हे ईश एतत्त्वं किमवेदज्ञासीः । यत्सा सरस्वती नदी रजनीचरैर्व्यापि । स्मरसि यस्यामुपगुरूपाध्यायसमीपे त्रिवेदी त्रीन्वेदानितिह गुर्वाम्नायेनापठाम त्वं वयं चाधीतवन्तस्तथा स्मरसि यस्यामिह गुरुसमीपे शश्वव्यवसामोषिताः ॥ निचकार विप्रालवणः । अत्र "परोक्ष" [१२] इति परोक्षा ॥
इतिह न्यहन् । ह जघान । शश्वदभुत । शश्वहुभुजे ॥ प्रच्छये । किमवे. त्वमेतत् । किं न विवेदिथैनम् । अत्र "हशश्वद्" [१३] इत्यादिना ह्य. स्तनी ॥ परोक्षे वेत्येव कृते भूतान/तनमात्रभाविन्या हस्तन्याः पक्षे सिद्धौ हस्तनी विधान स्मृत्यर्थयोगेपि हस्तन्येव यथा स्याच भविष्यन्त्येवमर्थम् । तेन सरसीश यस्यामितिहापठाम । सरसीहे शश्वव्यवसाम ॥ अवसच दुर्वासऋषिः स यस्मिन्स पुरा न्यवात्सीदथ मण्डुमूनुः । अवसन्पुरान्येप्यषयो वनं तदलितं तदा कश्वन न हरक्षीत् ॥९॥
९. स्पष्टम् । किं तु तद्वनं सरस्वतीतटस्थ आश्रमविशेषः। तदा दलनकाले ॥
१ ए पयोद्यो'. २ डी सिद्धो ख. ३ ए °तिनिपा. ४ डी पारः पर्ये. ५ डी कानन्यह. ६ डी किवमेद. ७ बी क्षेति. ८ डी ह ज. ९ए डी जे ॥ प्राच्य । कि. १० ए सी डी घनतमा . ११ डी विना घ. १२ सी डी स्तनीवि'. १३ ए °नं सत्य. १४ सी डीह सव'. १५ सी डी स्पष्टः ।।