________________
व्याश्रयमहाकाव्ये
[जयसिंहः]
बाहुना कृत्वा पयोधिपरिखामब्धिपर्यन्तां क्ष्मां धृतवान्पालितवानित्यर्थः । कीहक्सन् । धरणीवराहो भूभारवहनक्षमत्वात्पृथ्व्यामादिशूकरतुल्यस्तथा सौम्यत्वादिना भपतेरिन्दोः पुंसानुजो नु पुंसा करणेनानु पश्चाजातः पुंसानुजोनन्तरोनुज इवेन्दुतुल्य इत्यर्थः । भ्राता हि सदृशो भवति । तथा नृपराजवाओं नृपेषु राजहंसतुल्यस्तथा खानामिन्द्रियाणां जयादशीकारादतिजरन् वृद्धमतिकान्तस्तथा मखेषु यागेषु यज्वनामत्विजां सुत्वा यजमानो यागानां कारयितेत्यर्थः । तथा विजितारिवर्गः।।
अनिचित् । इत्येत्र "अग्नेश्वेः" [१६५] इति क्विप् ॥ कङ्कचित् । इत्यत्र "कर्मणि" [१६५] इत्यादिना किम् ॥ स्वर्गदृश्वा । इत्यत्र "दृशः क्वनिप्" [१६६] इति क्वनिप् ॥
सहकृत्वा । सहयुवानम् । राजकृत्वा । राजयुध्वा । इत्यत्र “सह." [१६७] इत्यादिना क्वनिप् ॥
आस्मानुजम् । अत्र "अनो०" [१६८] इत्यादिना डः ॥ अख । इत्यत्र "सप्तम्याः " [१६९] इति डः ॥
भ्रातृजम् । अत्र "अजातेः पञ्चम्याः" [१७०] इति डः ॥ अजातेरिति किम् । द्विजाजातान् ॥
उक्कान्नान्नोन्यतोपि । द्विर्जातान्द्विजान् ॥ अकर्मणोपि। अनुजान ॥ जातेरपि । क्षत्रियजान् ॥ उक्ताद्धातोरन्यतोपि । ब्रह्मणि जीनवान्ब्रह्मज्यः । उक्तानाम्नो धातो.
१५ घिस्वाम'. २ बी दिसूक. ३ ए °तिरजन्. ४ बी यजना. ५. सी डी 'त्य अ. ६ ए सी डी स्वर्भदृ. ७५ ध्वान । रा'. ८ वी °ज । अ. ९ डी जाजाता. १० ए सी डी °न् । उ.