________________
व्याश्रयमहाकाव्ये
[जयसिंहः] ११०. स्पष्टः । किंतु अनुयायिनि तवात्यन्तं भक्त इत्यर्थः । चारुदायी चारु यथा स्यादेवं पुरादि ददत् ।।
"अदोनन्नात्" [१५०] इत्यस्य आमात् इत्यादि प्रवृत्त्युदाहरणम् अन्नादान इति व्यावृत्युदाहरणोपदर्शनेनैव दर्शितं ज्ञेयं प्रवृत्तिमन्तरेण व्यावृत्तेरभावात् ॥
क्रव्यांक्रव्यादशब्दौ "क्रव्यात्' [१५१] इत्यादिना साधू ॥ त्यदादि । त्यादृशान् । त्यादृक्ष । तादृशम् । तादृक्षया । तादृक् ॥ अन्य । अनन्यादृशम् । अन्यादृक्षाम् । अनन्यादृशम् ॥ समानः(न)। सदृक् । इत्यत्र "त्यदादि०" [१५२] इत्यादिना टक्सको क्विच । केचित्सकमपि टितं मन्यन्ते । सहक्षीम् ॥ मित्रभाषी । इत्यत्र “कर्तुणिन्" [१५३] इति णिन् ॥ स्निग्धदर्शी । इत्यत्र "अजातेः शीले' [ १५४ ] इति णिन् । अजातेरिति प्रसज्यप्रतिषेधादसत्त्ववाचिनोप्युपसर्गाद्भवति । अनुयायिनि । अजातेरिति किम् । विप्रादीन् रक्षिता ॥ साधुकारी । चारुदायी । इत्यत्र “साधौ” [१५५] इति णिन् ।
ब्रह्मवादी हरिस्मारी भूत्वा स्थण्डिलवय॑थो।
प्रापाग्निष्टोमयाजीव स पुरी जम्भविद्विपः ॥ १११ ॥ १११. अथो स कर्णो जम्भविद्विष इन्द्रस्य पुरीं प्रापाग्निष्टोमयाजीव यथाग्निष्टोमेन स्वर्गफलेन यागविशेषेणेष्टवान्यजमानो जम्भविद्विपः पुरीं प्राप्नोति । कीहक्सन्सः । स्थण्डिलवर्ती स्थण्डिले मुनियोग्ये भूविशेषे व्रतादू वर्तमानो भूत्वा ब्रह्मवादी परमतत्वं वेदान्वा ब्राह्मणान्वा वदंस्तथा हरिस्मार्यभीक्ष्णं हरिं स्मरन् ।
१ ए सी डी पुरी ज'. १ए सी डी "देव पु. २ ए सी डी °दा इ. ३ बी व्याक्रव्या. ४ सी डी इना. ५ ए दृशन्. ६ सी डी °न् । तादृ. ७ ए 'दृशां ता°. ८ ए दृक्षम्. ९ वी अन्या. १० बी 'मानं स. ११ ए सी डी न्यते । स. १२ ए सी डी क्षी॥. १३ ए जातो शी०. १४ सी पुरी प्रा. १५ डी ण्डिले व°. १६ सी डी वा प. १७ ए सी डी क्ष्णं म.