________________
[है० ५.१:१५०.] एकादशः सर्गः।
१०७. वाग् दैवी वाणी दिव्याकाशेभवत् । कथमित्याह । असदृक् प्रतापादिगुणैर्निरुपम एष जयसिंहस्त्यादृशान्दुर्जेयत्वेन प्रसिद्धान् क्रव्याक्रव्यादानप्याममांसभक्षान्पकमांसभक्षांश्चापि शात्रवान् शत्रून राक्षसानपीत्यर्थः । अन्नादानिव मनुष्यानिव हेलयैवेत्यर्थो जेध्यत्येवम् ।।
त्यादृक्षमङ्गलैस्तादृग्वाचा दृष्टोथ तादृशम् ।
तमनन्यादृशं साह कर्णस्ताक्षया गिरा ॥ १०८ ॥ १०८. अथ कर्णस्तं जयसिंह तादृश्या तत्कालोचितया गिरा शिक्षाप्रधानवाण्याह स्म । कीदृशम् । तादृशं राज्याभिषेकश्रीसमलंकृतं तानन्यादृशं शोभातिशयेन निरुपमम् । कीहक्सन् । त्यादृक्षमङ्गलैः पुरोहितकृताभिषेकोचितमङ्गलकर्मभिस्तादृक्षवा(दृग्वा)चा च दिव्यवाण्या च हृष्टः ॥
नान्यादृक्षां सदृक्षी किं त्वाद्यानामुद्वहन्स्थितिम् । मित्रभाषी स्निग्धदर्शी विप्रादीन रक्षिता भव ॥ १०९ ॥
१०९. हे वत्स त्वं विप्रादीन्वर्णचतुष्टयी रक्षिता पालनशीलो भव । कीहक्सन् । नान्यादृक्षां पूर्वपुरुषस्थितिसकाशान्न विपरीतां किंतु सदृक्षीमाद्यपुरुषस्थितेः सदृशीमाद्यानां पूर्वजानां स्थितिं व्यवस्थामुद्वहंस्तथा मित्रभाषी सखेवालपन स्निग्धदर्शी सानुरागं दर्शनशीलः ।।
भूया मद्भातृजे देवप्रसादे वानुयायिनि । साधुकारी चारुदायी सर्वदा च प्रसादवान् ॥ ११०॥
१ ए डी दृशां त. २ ए तरान'. ३ ए 'दृक्षी स. ४ सी न् वर्ण'.
१वी थे,ज्येष्य २ ए सी डी व ॥. ३ ए ‘ण्यामाह स्स । की. सीडी ‘ण्यास्माह । की. ४ ए थामन्या'. सी डी ‘था अन्या. ५ डी निरूप'. ६ ए सी डी 'न् अनन्या. ७ सी रागद.