________________
है० ५.१.१५९.] एकादशः सर्गः । ब्रह्मवादी । इत्यत्र "ब्रह्मणो वदः" [१५६] इति णिन् । स्थण्डिलवर्ती । हरिमारी । इत्यत्र "व्रत." [१५७] इत्यादिना णिन् ॥ अग्निष्टोमयाजी । इत्यत्र “करणाद्" [१५८] इत्यादिना णिन् ॥
स सोमविक्रयिभ्रूणहब्रह्महात्मघातिनः ।
वर्जयञ् जयसिंहोथ पितृकार्येपृणद्विजान् ॥ ११२ ॥ ११२. स्पष्टः । परं सोमं सोमवल्लीरसं विक्रीतवन्तः सोमविक्रयिण एवमादिद्विजान्महापापिष्ठत्वाद्वर्जयनन्यान्द्विजानपृणद्भोजनादिदानैरतर्पयत् ॥
भूवृत्रमोथ सुकृतः श्रुत्वा तां पुण्यकृद्गतिम् ।
देवप्रसादः पदकृत्तमूचे दर्शयन्सुतम् ॥ ११३ ॥ ११३. अथ सुकृतः कृतपुण्यस्य भूवृत्रघ्नो महीन्द्रस्य॑ कर्णस्य तां गति स्वर्गप्राप्तिलक्षणां श्रुत्वा देवप्रसादस्तं जयसिंहमूचे । कीदृक्सन् । पुण्यकृत्कृतधर्मात एव पदकृदुपार्जितस्वर्गरूपस्थानस्तथा सुतमात्मीयं पुत्रं जयसिंहस्य दर्शयन् ।। यदूचे तदाह ।
अपापकृत्रिभुवनपाल एषोस्तु ते सुतः। कर्मकृन्मत्रकृच्छाध्यस्तीर्थकृत्सोमसुत्प्रियः ॥ ११४ ॥ ११४. एष प्रत्यक्षो मत्पुत्रस्त्रिभुवनपालनामा ते सुतोस्तु । पुत्रवदयं त्वया पालनीय इत्यर्थः । कीदृग् । अपापकृदत एवं कर्मकृन्मत्र
१ए पुण. बी प्रिण'. २ ए सी ति ।. ३ ए सी डी साद प°. ४ ए न्सुताम्. ५ ए °ध्यकृस्ती'. ६ ए मस्युत्प्रि. डी °मस्तुत्प्रि.
१सी दिनानै'. . २ डी °तःपु०. ३ बी महेन्द्र. ४ ए °स्य तां. ५ ए सी डी धात. ६ बी डी °त्मीयपु. ७बी °मा सु. ८बी पाल्य इ. ९९ व अक.