________________
६२८
व्याश्रयमहाकाव्ये
[ कुमारपालः]
रहस्ये । द्वन्द्वं विदिशामः ॥ मर्यादोकौ । आचतुरं ये द्वन्द्वम् ॥ व्युक्रान्तौ । द्वन्द्वं विभिन्नाः । यज्ञपात्रप्रयोगे । द्वन्द्वं यज्ञपात्राणि प्रयुङ्क्ते । अत्र "रहस्य." [ ८३] इत्यादिना द्वन्द्वमिति निपात्यते ॥ इन्द्रवज्राः(वा) ॥
द्वन्द्वं विजित्य शिववैश्रवणौ स्थितस्य
वाच्यस्य तेथ न न कुर्म इति स नाहुः । छायां दधुर्न खलु कालिककालिकां स
जातीयबुद्धय उपाददिरे तदाज्ञाम् ॥ ८७॥ ८७. अथ तेमात्या वाच्यस्य सुराजत्वेन युक्तायुक्तं वक्तुं शक्य. स्यापि राज्ञः पुरो न न कुर्म इति नाहुः स्म मनसा पीड्यमानत्वेन मृतवित्ताग्रहणाज्ञां नैव कुर्म इति नोचुरित्यर्थः । कीदृशस्य । द्वन्द्वं शिवैश्रवणावत्यन्तं सहचरौ शंभुधनदौ विजित्यैवं परोपकारितोदाराशयत्वादिगुणोत्कर्षेण पराभूय स्थितस्य वर्तमानस्य । ननु राज्ञो मुखदाक्षिण्येनेदं नोक्तं भविष्यति । मनस्यरुच्या तु मुखं कृष्णं कृतं भविष्यति । नेत्याह । काल्येव कालिका कालिकायाः सदृशी कालिककालिका तां मनस्यरुच्या कृष्णां छायां मुखकांन्तिं च न खलु दधुः। किं तु तदाज्ञामुपाददिरेङ्गीचक्रुः । यतः । सती प्रकारोस्याः सज्जातीयातुच्छत्वेन स्वामिशुभाभिप्रायबहुमानिनीत्वेन च शोभना बुद्धिर्येषां ते ॥
द्वन्दं शिववैश्रवणौ । अत्र " लोक० " [४] इत्यादिना द्वन्द्वमिति निपात्यम् ॥ न न कुर्मः । अत्र "भाबाधे" [ ८५] इति द्विरुक्तिः ॥
१सी इदं वि. २ सी पात्यते । द. ३सी ५५ ष्णं भ. ६५ लिकः का.
चु.
नौ ४ए कत्रैव'.