________________
६२७
है. ७.४.८१.] विंशः सर्गः।
८५. अहो अमात्या मदाये मदीय आयपदे ये द्रम्मादीनां लक्षाः स्युस्ते द्वन्द्वं द्वाभ्यां द्वाभ्यां लक्षाभ्यां हीना न्यूनाः सन्तु । अथ वा मदाये याः कोट्यो भवन्ति ता द्वाभ्यां द्वाभ्यां कोटिभ्यां निम्ना हीना(नाः) सन्तु । तु परमसूनोः परासोवित्तं भवद्भिर्न ग्राह्यम् । एतद्वन्द्वं रहस्यं भवद्भयो निर्दिशामो वदामः ।। शालिनी ।। ये द्वन्द्वमत्राचतुरंत एव द्वन्द्वं विभिन्ना मृतवित्तलुब्धाः। द्वन्द्वं प्रयुते य उ यज्ञपात्राण्यन्यः समस्तेन तदसि शामि॥८६॥
८६. उ हे अमात्या अत्र भुव्याचतुर्थ्यः “ शरदादेः " [७. ३. ९२ ] इत्यति आचतुरं ये द्वन्द्वं मैथुनाय द्वौ द्वौ भवन्ति माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । मृतवित्तलुब्धा मृतद्रव्याभिलापुका नरास्त एव पशव एव द्वन्द्वं विभिन्ना द्वैराश्येन पृथग्भूताः । एके मृतवित्तलुब्धा मृतद्रव्यग्रहणस्य निन्द्यतमकार्यस्य करणेन निर्विवेकत्वाच्छृङ्गपुच्छपरिभ्रष्टा नृरूपाः पशवोपरे तु शृङ्गपुच्छादिमन्त इत्यर्थः । अन्यो मृतवित्तलुब्धेभ्योपरः पुनस्तेन तुल्यो यो याज्ञिको द्वन्द्वं यज्ञपात्राणि प्रयुङ्क्ते यज्ञक्रियासु द्वे द्वे यज्ञपात्रे व्यापारयतीत्यर्थः । मृतवित्तानभिलाषी तु पुण्यपात्रत्वाच्छाध्यतमत्वाच याज्ञिकतुल्यः स्यादित्यर्थः । तत्तस्माद्धेतोरस्म्यहं शास्मि मृतवित्तं भवद्भिर्न ग्राह्यमित्यादिशामि ॥
द्वन्द्वं हीनाः। इति "द्वन्द्वं वा" [२] इति वा निपात्यम् । पक्षे । द्वाभ्यों द्वाभ्यां निम्नाः॥
१ सी शपत्रा. २ एण्यन्य स.
१सी भ्यां ल'. २५ भ्यां को'. ३ एमः ॥ ये, ४ सी रहं. ५ सी भ्यां रभिम्ना । र.