________________
[है० ० ७.४.७५. ]
विंशः सर्गः ।
६२३
तत्तस्मात्परासुवित्तं मृतस्य द्रव्यं मोक्ष्यति । तस्माद्धे पुत्रि पयसो जलस्य प्रत्येकं घटं घटमेकैकं घंटं हि स्फुटं नित्यं परलोकगतयो: पतिपुत्रयोस्तर्पणाय प्रदातुं स्थेयाः । द्रव्यापहारशङ्कां मुक्त्वैतयोः परेतकार्याणि कर्तुं तिष्ठेत्यर्थः ॥
भृशे । आच्छिन्द्ध्याच्छिन्द्वी त्याच्छिदत् ॥ अभीक्ष्ण्य (क्ष्ण्ये ?) । शोचं शोचमवोचत् ॥ अविच्छेदे । न ग्रहीता ग्रहीता । इत्यत्र “भृश०” [ ७३] इत्यादिना द्विरुक्तिः ॥ भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायाद्भृशादियोगे द्विर्वचनं स्यात् । यथा स्तोकं स्तोकं श्रद्धीयताम् । प्राक्तमबादेरिति किम् । कुरुते कुरुते तमाम् । अत्र तमबादेराति - शयिकात्पूर्वमेव द्विर्वचनं पश्चात्तमबादिरन्यथा ह्यनियमः स्यात् ॥
पतिपुत्रयोः पयसो घटं घटं प्रदातुम् । अत्र “नाना० " [ ७३ ] इत्यादिना द्विरुक्तिः ॥ औपच्छन्दसकम् ॥
कुर्वत्यनिशं नमो नमस्त्वं ज्येष्ठं ज्येष्ठमनु प्रसादयर्षीन् । कतरा कतरा त्वदीशमून्वोर्विपदेवं जनवाचि मा स्म रोदीः ॥ ८० ॥
30
८०.
हे पुत्र्यनिशं सदा नमो नमोधिकं नमस्कारं कुर्वती सती त्वमृषीञ् ज्येष्ठं ज्येष्ठमनु प्रसादय ज्येष्ठानुक्रमेण मुनीन्संतोषय द्रव्यापहारशैङ्कां मुक्त्वा सदा गुरुसेवादिधर्मकृत्यानि कुर्वित्यर्थः । तथा त्वदीशसून्वोस्त्वत्पतिपुत्रयोः कतरा कतरा विपत् । आधिविपद्व्याधिव्या (वि)
१ सी 'स्य घटं प्रत्येकमैकं घ. अभी.
“शयका'•
" शङ्का मु.
२ सीटं स्फुटं हि नि .
४ ए भीक्ष्ण। शो'. ५ सीता । ३.
८ सी क्तिः । कु. ९ सी मो. १२ सी वोखदीशपु .
३ सी च्छन्दत् ।
६ सीत् । तथा.
७ ए.
सी वी व ११ सी
१०