________________
६०८ व्याश्रयमहाकाव्ये
[कुमारपालः] अस्थवीय इह सोस्थविष्टधीः क्षोदयद्यवयदन्ययौवतम् । क्षेपयच्च दवयनजीजनत्योपमं मयि यविष्ठ आत्मजम् ॥६२॥
६२. स यविष्ठोतियुवा मत्पतिरिह देशे वसन् स्वोपममात्मतुल्यमात्मजं मय्यजीजनन् । कीदृक्सन् । अस्थविष्ठधीरस्थूलबुद्धिः । दीर्घदर्शीत्यर्थः । अत एवान्ययौवतं दवयन्दूरीकुर्वन् । परदारसङ्गं वर्जयन्नित्यर्थः । कीदृशम् । अस्थवीयः कृशाङ्गम् । रूपपात्रमित्यर्थः । तथा क्षोदयद्यवयत्क्षेपयञ्चासतीत्वेन क्षुद्रान्नटविटादीन्यूनस्तरुणान्क्षिप्रांश्च सोद्यमानाचक्षाणम् ॥ रथोद्धता ॥
अक्षोदीयानहसिष्ठहर्षो विदधे क्षेपीयो महोत्सवं सः। इसिमक्षोदिमशातनं इसीयःक्षोदिष्ठानामप्यथार्थदानैः ६३
६३. अथ पुत्रजन्मानन्तरं स मत्पतिः क्षेपीयोतिक्षिप्रं महोत्सवं विदघे । कीदृशम् । हसीयःक्षोदिष्ठानामपि हसीयांसोतिहस्वा इ(अ)तिलघवोतिदरिद्रा इत्यर्थः । तथा क्षोदिष्ठा अतिक्षुद्रा अतिनृशंसा व्याधादयो द्वन्द्वे तेषामपि । आसतां ह्रस्वमात्राः क्षुद्रमात्राश्चेत्यप्यर्थः । अर्थदानै सिमक्षोदिमशातनं द्रव्यम्यातिबहोर्दानादतिदरिद्राणामप्यतिनृशंसानामपि च दरिद्रत्वनृशंसत्वयोर्विनाशकमित्यर्थः । यतः । कीदृक्सः । क्षुद्रो दरिद्रः कृपणश्चात्यन्तं क्षुद्रः क्षोदीयान्न तथा । ईश्वर उदारश्चेत्यर्थः । तथाहसिष्ठहर्षो गुरुतमानन्दः ॥ औपच्छन्दसकापरान्तिका ॥ स्थूलयामि युवयामि शिशुं क्षेपिष्ठमित्यहसिताशयवृत्तिः । क्षेपिमोपनतसत्पयसिष्ठत्वाभ्यदूरयमहं न हि पुत्रम् ॥ ६४ ॥
१एम हि.
१ सी "त्मजमजी'. २५ बुद्धिदी'. सी 'बुद्धिरदी'. ३ बी वक्षेप. ४ सीनतट'.. ५ बी सी स्वाति'. ६५ °ति द. ७बी वर्षः.