SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ [है.५४.३४) विशः सर्गः। स परिव्रढयन्परिवढिष्ठं सद्रढिमम्रदिमानमत्र भूपम् । विभवप्रथिमापहारशङ्कां क्रशयन्भूयिष्ठादभूय[य]त्स्वम् ॥६०।। ६०. स मत्पतिः स्खं धनं भूयिष्टादतिवहोरपि स्वात्सकाशादभूययदनेकवणिज्यैर्बहूचक्रे । यतो विभवप्रथिमापहारशङ्कां क्रशयन्शीकुर्वन् । मुञ्चन्नित्यर्थः । एतदपि कुत इत्याह । यतोत्र देशे नृपं परिवढयन्वास्तव्यीभवनेन प्रभूकुर्वन् । किंभूतम् । सद्रढिमम्रदिमानं द्रढिना प्रजारक्षासामर्थेन म्रदिना च निर्लोभत्वोत्थेन सदयहृदयत्वेन सहितमत एव परिवढिष्ठमुत्कृष्टप्रभुम् ॥ औपच्छन्दसकम् ॥ बहयन्वधर्म वसु भावयंश्च स्थवयन्विलासान्सुखभूम्नि मनः । कुधियां दविष्ठो विपदां दवीयान् स निनाय भूयः समयं यवीयान् ॥ ६१ ॥ ६१. यवीयानतियुवा स मत्पतिर्भूयःसमयमतिबहुकालं निनायातिचक्राम । कीदृक्सन् । कुधियां मूर्खाणां कुत्सितानां बुद्धीनां वा दविष्ठोतिदूरोत एव विपदों दवीयानतिदूरोत एव स्वधर्म वहयन्बहूकुर्वस्तथा वसु द्रव्यं भावयंश्च बहूकुर्वश्च । तथा विलासा शृङ्गारचेष्टाविशेषान्यवयन्नुपचितीकुर्वन् । यथावसरं धर्मार्थकामान्सेवमान इत्यर्थः । अत एव च सुखभूग्नि सुखबाहुल्ये मनः ॥ केकिरवं छन्दः ॥ १ बी मित्रहिमा. २ ए प्रतिमा. बी प्रथमा .. ३ सी ययि'. . .१ सी ढिमा प्र. २ सी रिवृद्धमु.. ३ बी क ॥ . ४ ए दां पद'. ५५.सी. कुर्वस्त...६ बीन्सनु... ७. ए मानासेव'. . ८ सीखवा'. ९बील्येन म.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy