SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५९८ ब्याश्रयमहाकाव्ये [ कुमारपालः] ऐक्ष्वाकदारानामभार्यां सीतां हिरण्मयणेन स्वर्णमृगेण कृत्वाच्छिनत् । यतः । कीदृक् । भ्रूणन्नो भावो भ्रूणहत्यं भ्रूणहत्या तेन क्षुभितो भीतो भ्रौणहत्यक्षुभितो ने तथा । महापापिष्ठ इत्यर्थः ॥ उपजातिः ॥ मैत्रेयवाक्सारवंवाःपवित्रा मनन्तमान्तिक्यनिजप्रियां त्वाम् । अनन्तियोप्यन्तितमोत्र विध्वं सितुं कुधैवत्य उतानिनाय ॥४८॥ ४८. उताथ वा कुत्सितं धैवत्यं धीनः पण्डितस्य भावः पाण्डित्यं यस्य स कुधैवत्यः कुधीः पारदारिकस्त्वां विध्वंसितुं विध्वस्तशीलां कर्तुमत्र स्थान आनिनाय । कीडक्सन् । अनन्तियोपि शीलभङ्गहेतुत्वादन्तिकेसाधुरप्यन्तितमः शीलभङ्गायातिशयेनान्तिकः । किंभूतां सतीं त्वाम् । मित्रयोरपत्यं गृष्ट्यादित्वादेयनि [ ६. १. ८४.] मैत्रेयो मुनिस्तस्य या वाक् तथा सरय्वां भवं सारवं यद्वार्जलं तद्वत्पवित्रां सुशीलत्वेन निर्मलाम् । तथान्तिके निकटे साधुरन्तिक्योत्यनुरक्त इत्यर्थः । यो निजप्रियः स तथान्तमोतिनिकटो न तथानन्तमः प्रोषितत्वादिना दूरस्थ आन्तिक्यनिजप्रियो यस्यास्ताम् ॥ अप्यन्तितोन्तिकत एत्य तदैवमुक्त्वा भूपे स्थितेन्तिकतमे निजबान्धवे नु । साथान्तिपन्यगददन्तिकसन्नृपांहि द्वन्द्वं स्रजिष्ठमिव दन्तरुचादधाना ॥४९॥ १५ वचाः पतित्रा'. २ सी नन्तिमा'. ३ ए °न्तिकानि'. .४ बी 'त क ए. ५ ए धानः । अथान्तिकतः. १ सी न म. २ सी "स्य वा भा'. ३ सी गाति'. ४ सी भान्तिमो'. ५ बी सी 'न्तिकनि.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy