________________
१७८
व्याश्रयमहाकाव्ये
{कुमारपालः]
२३. कोपि जनो भुवां पृथ्व्यां जन्तुं घटोनीवद्गामिव नाहन् । कीदृक् । महाभटत्वाच्छोभना शस्त्री क्षुरिका यस्य स सुशस्त्रीकस्तथा शोभनो भोक्ता रक्षको राजादिर्यस्य स सुभोक्तृको विशेषणकर्मधारये सोपि । यतः । कीदृश्यां भुवाम् । शुभाः पशुवधनिवारणाय नियुक्तत्वेन पशुवधस्थानेषु परिभ्रामुकत्वाच्छुभव्यापारा दण्डिनो राजकाम्बिका यस्यां तस्याम् । एतदपि कुत इत्याह । यतः श्रेयस्तनूकेन न्यायदयादिसद्गुणपवित्राङ्गकेनानेन भैमिना कृत्वा सुखामिकायां शोभनक(भ?)र्तृकायाम् ॥ घटोनी । इत्यत्र "सियामूधसो न्" [१६९] इति नः समासान्तः ॥ बहु(शुभ)दण्डिकायाम् । अत्र "ईनः कच्" [१७० ] इति कच् ॥ अनिनस्मन्प्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । सुस्वामिकायाम् ॥
ऋत् । सुभोक्तृकः ॥ नित्यदित् । सुशस्त्रीक । श्रेयस्तनूकेन । इत्यत्र ". नित्यदितः" [ १७१ ] इति कच् ॥ उपजातिः ॥
सुशालिके सद्देधिके सुसर्पिष्के भोजने निर्मधुकोत्पयस्के। प्रजोदुरस्का रमते स न त्वामिषेनुपानत्क इवापमार्गे ॥२४॥ २४. स्पष्टम् । किं तु । निर्मधुकोत्पयस्के मधुनो मद्यान्निर्गतं
३ ए दुरुस्का. ४ सी रस्का .
१ए के मुद्द. २ सी दकिके. ५ सी स्वानिषे.
१ एपि मु. २ सी भुवि पृ. ३ सी भीमिव'. ४ ए दियस्य. ५ सी 'शेषेण. ६ सी भ्रामक'. ७ ए पारद'. ८ सी 'स्यां ए. ९ए यथाने. १० सी इन क. ११ सी के . १२ सी जन्ति'. १६५ 'सीकः । श्रे. १४ सी मध्यानि.