________________
[है० ७.३.१६९.] विंशः सर्गः । विखुः । विखः विग्रः । अत्र "वेः खुखमम्" [ १६३ ] इति खुखग्राः ॥ परयौवतजानिः । अत्र "जायाया जानिः" [ १६४ ] इति जानिः ॥ विकाकुदुत्काकुंदपूर्णकाकुदं संपूर्णकाकुत्सममेव तद्वचः । प्रपद्य ते पूर्णककुजनैरमार्याघोषणामा त्रिककुद्रेिर्व्यधुः ॥२२॥
२२. ते नियोगिनः पूर्ण ककुदं स्कन्धो येषां ते जनास्तैस्तरुणलोकैः कृत्वामार्या घोषणां व्यधुः । कथम् । त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य त्रिककुद्यो गिरिलङ्गाद्रिस्तस्मादा तमभिव्याप्य तमवधीकृत्य वा । किं कृत्वा । तद्वचो भैमेर्वचनं सममेव युगपदेव प्रपद्याङ्गीकृत्य । किंभूतम् । विगतं काकुदं ताल्वत्र विकाकुत्तयोत्का. कुत्तथापूर्णकाकुदं तथा संपूर्णकाकुत्किंचित्तालुस्पर्शरहितं किंचिच्चोद्गत तालुस्पर्श किंचिच्चापूर्णतालुस्पर्श किंचिच्च संपूर्णतालुस्पर्श मित्यर्थः ।।
विकाकुत् । उत्काकुत् । इत्यत्र "न्युदः०" [ १६५] इत्यादिना लुक्समा सान्तः॥ संपूर्णकाकुत् । अपूर्णकाकुदम् । अत्र "पूर्णाद्वा" [ १६६ ] इति वा लुक् । पूर्णककुजनैः । अत्र “ककुदस्य." [१६७ ] इत्यादिना लुक् ॥ त्रिककुत् । इति "त्रिककुदिरौ" [१६८] इति निपात्यम् ॥ वंशस्येन्द्र वंशयोरुपजातिः॥
जन्तुं घटोनीवर्दैहन्न कोपि जनः सुशस्त्रीकसुभोक्तृकोपि । सुस्वामिकायां शुभदण्डिकायां श्रेयस्तेनूकेन भुवामनेन ॥२३॥
१५ कुदं. २ ए र्यामघों'. ३ सी °णामत्रक. ४ सी दन्नकोपि जिन मु. ५ सी स्वतः के.
१सी विखः. २ ए विग्रैः । अ. ३ ए जानिरजा'. ४ ए ते येना'. ५ एर्लकाद्रि'. ६सी ततम. ७सी त्र का. ८सी हि'. ९सी 'निच. १० सी लुक् । त्रि. ११ सीम् ॥ .