SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५७० ब्याश्रयमहाकाव्ये [कुमारपालः] राजा तथा प्रजेति वचनात् । एतेन राज्ञात्मनोव हि(न्येव हिं?)साकरणदोषः स्थापितः॥ दुर्जातीयाः । अत्र "जातेरीयः" [ १३९] इत्यादिनेयः ॥ सप्तकमासिकाः । अत्र "भृति." [ १४० ] इत्यादिनेकः ॥ श्वधर्माणः । अत्र "द्विपदाधर्मादन्" [१४१ ] इत्यन् ॥ विकल्पमिच्छन्त्येके । श्वधर्माणः विधर्माः ॥ सुजम्नि । हरितजम्न्नि । तृणजम्नः । सोमजम्न(म्नः)। अत्र "सुहरित." [१४२ ] इत्यादिना-अन् ॥ दक्षिणेर्मणि । इत्ययं "दक्षिणेमा०" [ १४३ ] इत्यादिनामन्तः साधुः ॥ सुगन्धीन् । पूतिगन्धि पलम् । उद्गन्धि । सुरभिगन्धि । अत्र "सुपूति." [१४४ ] इत्यादिना-इत् ॥ सुगन्धि अम्बु सुगन्धं पलम् । पूतिगन्ध्यम्बु पूतिगन्धो मरुत् । उद्गन्धि पलम् उद्गन्धमम्बु । सुरमिगन्धिर्मरुत् सुरमिर्गन्धं वपुः । अत्र “वागन्तौ" [१४५] इतीद्वा ॥ वसन्ततिलका ॥ न न्यायगन्धोसि न धर्मगन्धिः करीषगन्धस्य पुरीषगन्धिः । कृते शरीरस्य करं धिगेष गृह्णामि भूमेन तु रक्षणायं ॥ १४ ॥ १४. न्यायस्य गन्धो यस्मिन्स न्यायगन्धोहं नास्मि । एवं निरपराधपशुवधस्य. महापन्यायस्यानिवर्तकत्वान्मयि न्यायस्य गन्धोपि नास्तीत्यर्थः । अत एवाहं न धर्मगन्धिर्वर्तत एव वाहं पापाशुचिलितत्वात्पुरीषस्येव गन्धो यस्य स पुरीषगन्धिः सन्नेषोहं करीषगन्ध १ सी य ॥ न्योय'. १एम्भः । अ. २ सी गन्धो महत्. ३ ए न्धव. ५ एर्भमंग'. ६ सी चितिप्त. गन्धमरु'. ४ ए ग.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy