________________
[है. ७.३.१३९.]
विंशः सर्गः।
शासितुः सुरभिगन्धि यशः कर्म क्षिणोति क्षयं नयति किमुत किं पुनः प्रत्यक्षमेवैष पशूनां वधः ॥ वसन्ततिलका ।।
उद्गन्धि दुग्धं कलमान्सुगन्धीं
स्त्यक्त्वा पलं कामति पूतिगन्धिं । लोको यदुद्गन्धि सुगन्धमत्तुं
तच्छासितुस्तत्खलु दुर्विवेकः ॥ १२ ॥ १२. स्पष्टम् । किं तु । पूतेरिव गन्धो यस्य तत्पूतिगन्धि स्वभावेन दुर्गन्धं परं कर्पूरादिसुरभिद्रव्यक्षेपेणोद्गन्ध्युल्लसद्गन्धं सुगन्धं च सत्पलं मांसमतुम् । तच्छासितुर्लोकं शिक्षयितुपस्य ।। इन्द्रवना॥
उद्गन्धमम्ब्विह सुगन्ध्यथ पूतिगन्धि
यद्वन्मरुत्सुरभिगन्धिरु पूतिगन्धः । संसर्गतः सुरभिगन्धमिदं वपुर्वा
राजानुरूपगुणभृजन एष तद्वत् ॥ १३ ॥ १३. उ हे पशुकर्षिन्नर यद्वद्यथेह जगत्यम्बु जलं संसर्गतः सुरभिद्रव्यसंसर्गादुद्गन्धमुत्कृष्टगन्धं सुगन्धि चाथाथ वा दुर्गन्धद्रव्यसंसर्गात्पूतिगन्धि दुर्गन्धं स्यायथा वा मरुद्वातः संसर्गतः सुरभिगन्धिः पूतिगन्धो वा स्याद्यथा वेदं प्रत्यक्षदोर्गन्ध्यं वपुः संसर्गतः सुरभिगन्धं स्यात्तद्वत्तथैष जनः संसर्गतो नृपसंसर्गेण राजानुरूपगुणभृत् । राज
शब्देनात्र राजगता गुणा उपचारादुच्यन्ते । ततो राजेनुरूपा राजगुणसदृशा ये गुणाः कृपादयोकृपादयो वा तद्विभ्रत्स्याद् यथा १ए गन्धीस्त्य'. २ सी "न्धि सु. १ सी मुति किं. २ सी र्गन्धिद्र'. ३ एन्धो यथा स्या.° ४ ५ जारू'.