SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [है. ५.१.१२८.] एकादशः सर्गः। सुभगंभावुकः स्थूलभविष्णू राज्यसंपदम् । सुभगंकरणी स्थूलंकरणीमपि नार्थये ॥ ९१ ॥ ९१. अहं राज्यसंपदं नार्थये नेच्छामि । कीदृशीम् । असुभगः सुभगः क्रियतेनया तां सुभगंकरणीमपि । अपिरत्रापि योज्यः । सौभाग्यहेतुमपि तथा स्थूलंकरणीमपि यथेच्छभोज्यसंपत्त्योपचयहेतुमपि यतोहं सुभगंभावुकः पूज्यपादप्रसादात्सर्वलोकानां वल्लभीभवंस्तथा स्थूलंभविष्णुरुपचितीभवंश्च । यद्यस्य न स्यात्स तत्प्रार्थयते । अहं तु युष्मैत्पादप्रसादेन राज्यसंपदं विनापि सुभंगः स्थूलश्चतीमां नेच्छामीत्यर्थः ॥ ऊचे स्मितेन सुभगंभविष्णु द्योतयनमः । आढ्यीभवितबुद्धिं तं प्रियंकरणवॉग्नृपः ॥ ९२ ॥ ९२. नृपः कर्ण आढ्यीभवितवुद्धिं स्फीतीभवन्मतिं कुमारं सुभगं. भविष्णु युक्तियुक्तत्वान्मधुरत्वाच मनोहारि यथा स्यादेवमूचे । कीदृक्सन् । स्मितेन पुत्रसद्भक्तिवाक्यश्रवणोत्थानन्दोद्भवेन हास्येन नभो द्योतयंस्तथा प्रियंकरणवागाह्रर्दिकवाणीकः ॥ यथोचे तथाह ॥ पलितंकरणी नगंकरण्यन्धंकरण्यथ । अनाढ्यंकरणी बुद्धे राप्यङ्गं ग्रसिय॒ते ॥ ९३ ॥ १ डी विष्णु न. २ सी डी रणीस्थ्'. २ डी वितुबु. ४ ए तृषुद्धि त प्रिं. ५ ए वानृपः. ६ बी ध्यति । हे. १ डी गः कि. २ए णीयम. ३ बीमत्प्रसा. ४ ए भगस्थूल श्रे. ५ सी बोतंस्त. ६ ए बी हादिकावा'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy