________________
५.
॥
[ है० ७.३.१३१.] विंशः सर्गः।
५६५ दुष्टा निन्द्या सक्तिः पशुविक्रयादिकुव्यापारसंसर्गों यस्य स दुःसक्तः।। मन्दाक्रान्ता छन्दः ॥
दुःसक्तिमूचे तमसौ सुसक्तिरेनस्यसक्तिः सुकृते सुसक्तः । अवीनसक्थान्नु गतावसक्ता
न्हेतोः कुतः कर्षसि भोः सुसैक्थ ॥ ६॥ ६. असौ भैमिर्दुःसक्तिं पशुविक्रयरूपदुष्कर्मासक्तं तं नरमूचे । कीहक्सन् । शोभना सक्तिर्धार्मिकैः सह संसर्गो यस्य स सुसक्तिरत एवैनसि पापकर्मविषयेसक्तिस्तथा सुकृते धर्मे सुसक्तः । किमूच इ. त्याह । शोभने गमनदक्षे सक्थ्री(क्थिनी) यस्य भोः सुसक्थावीइछागान्कुतो हेतोः कर्षसि । किंभूतानपि । असक्थान्नु यथा सक्थिरहिता गतासक्ताः स्युरेवं गमनेसक्तानसंसर्गान्बलान्नीयमानत्वेन स्वयमगच्छत इत्यर्थः ॥ उपजातिः ॥
स प्रत्यवोचत्सुहलो न दुहेलो न चास्म्यहं किं त्वहलो नयामि तत् । असक्थिदुःसक्थिसुसक्थिकानमू
न्दातुं वसुभ्यः प्रति सौनिकापणे ॥७॥ ७. स नरः प्रत्यवोचत् । तथा हि । हे राजन्नस्मि न सुहलो न च दुहेलो न शोभनया न वाशोभनया हल्या युक्तः किं त्वहमहलो हलिरहितोतिदरिद्र इत्यर्थः । तत्तस्मादमून्पशून्वसुभ्यः प्रति दातुं ध. १ए सक्थ्यन्नु. २ ए °सक्थः ॥ अ. ३ सी क्थिका.
१ ए दिव्या. २ सी मद. ३ सी वशक्ताः . ४ सी यमाग'. ५ ए प्रत्युवों. ६एन्वस्तुभ्यः.