________________
५६४
व्याश्रयमहाकाव्ये
[कुमारपालः]
बह्वय ऋचो येषां तैर्बह्वचैश्चरणैरुपलक्षणत्वादन्यलोकेनाप्यासेव्य उपबासव्रतविशेषपूजाविशेषादिनाराध्ये । पौष्यां फाल्गुन शुक्लैकादश्यां विष्णोराराधनं महाफलम् । यद्ब्रह्माण्डपुराणम् ।
यदा तु शुक्लद्वादश्यां पुष्यं भवति कहिंचित् । तदा सा तु महापुण्या कथिता पापनाशिनी ॥ १ ॥
पुराणभाषया द्वादशीशब्देन व्रतैकादश्युच्यते । तस्यां जगत्पतिर्देवः सर्वसर्वेश्वरो हरिः । प्रत्यक्षतां प्रयात्येव तेनानन्तं फलं स्मृतम् ॥ २ ॥ इमामेकामुपोष्यैव पुष्यनक्षत्रसंयुताम् । एकादशीसहस्रस्य फलं प्राप्नोति नान्यथा ॥ ३ ॥ तस्मादेषा प्रयत्नेन कर्तव्या फलकातिभिः ।
फाल्गुने च विशेषेण विशेषः कथितो नृप ॥ एतेन च पर्वोपन्यासेन तदा राजाप्युपोषितो व्रतविशेषस्थो धर्मध्यानस्थश्चासीदिति विशेषेणोल्लसद्दयं बलादाकृष्यमाणान्दीनान्पशून्द. दर्शेत्यर्थो व्यञ्जितः । कीदृग्नरः । अन्तर्लोमान्यस्यान्तर्लोमं तथा बहिर्लोमान्यस्य बहिर्लोमं च । उभयपार्श्वयोर्लोमशमित्यर्थः । और्ण. मूर्णामयं पंटं दधत्तथा मुग्धत्वात्रय एव चत्वारो यस्य स त्रिचत्वास्तथा नि(निः)स्वत्वान्नास्ति हलिमहद्धलमस्याहलिरत एव दुष्टे कार्यकठोरत्वादिना विकृते सकभी(क्थिनी) यस्य स दुःसक्थस्तथा
१५ बहू क्र. २ ए °राध्यपौ. ३ ए सर्वे'. ४ सी पोष्यतं पु. ५ सी युतं । ए. ६ एथिते नृपः । ए.' ७ए तशे. ८ ए शेषणों. ९एलोम त. १० सी पदं द. ११ सी वास्त्रय. १२ सी निसला.