________________
[ है० ७.३.१०२.] एकोनविंशः सर्गः। ५५१ ब्यञ्जलयख्यञ्जलयः पूर्वेषां नौरसाः स्थ भोः । व्यंलि(यञ्जलि)व्यञ्जलिकृता मया भ्रान्त्यैव पूजिताः॥१२२॥
१२२. भो व्यञ्जलयस्यञ्जलयः स्वर्णादीनां द्वाभ्यामञ्जलिभ्यां त्रिभिरञ्जलिभिश्च क्रीता भटा यूयं पूर्वेषां पूर्वमहाभटानामौरसाः पुत्रा न स्थ । एतब्युपस्थितस्य युद्धस्याकारकत्वात् । अत एव यूयं मया भ्रान्त्यैव तेषां महाभटानामौरसा एत इति महायोधा भविष्यन्तीति मतिभ्रमेणैव पूजिताः स्वर्णवस्त्रादिदानैः सत्कृताः । कीदृशा सता । व्यञ्जलित्र्यञ्जलिकृता द्वयोरञ्जल्योस्त्रयाणामञ्जलीनां समाहारं कुर्वता भक्त्यर्थ द्विनिर्वाजलियोजनानि कुर्वता ॥
यायुषम् । व्यायुषम् । अत्र "द्विवेरायुषः" [ १०० ] इत्यद ॥ ब्याल । व्यञ्जलि । ध्योंल । व्यञ्जलि । इत्यत्र “वाञ्जलेरलुकः" [१०१] इति वा-अट् ॥ अलुक इति किम् । द्यञ्जलयः । व्यञ्जलयः ॥
तेनेत्युक्ता युयुधिरे तेधिकीभूय वैरितः॥ द्विखारतस्त्रिखारीव त्रिखारेः पञ्चखारि वा ॥ १२३ ॥ १२३. स्पष्टः । किं तु यथा द्विखारतो द्वयोः खार्यो(योः) समाहारात्सकाशात्रिखारी तिसृणी खारीणां समाहारोधिका स्यादेवं यथा त्रिखारेः पञ्चखारि वाधिकं स्यादेवं वैरितः शत्रुभ्योधिकीभूय ॥
द्विखारतः । पञ्चखारि । इत्यत्र "खार्या वा" [ १०२ ] इति वा-अट् ॥ केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते "गोश्च०" [२. ४. ९६ ] इत्यादिना
१ सी यस्वर्णा. २ए भूयो बैं'. ३ ए द्विषार'. ४ सी 'खारीवत्रिवारी'.
१ सी वें म. २ सी न्त्यैते ते'. ३ सीता। यं कृ. ४ ए ल । त्र्य. ५ सी अलि त्र्य. ६ सी लुक् . ७ सी खारितो. ८ सी णां स. ९ए गोश्चात्या.