________________
.५५०
ट्याश्रयमहाकाव्ये
[कुमारपालः]
१२०. अथारिबल्लालो दण्डनायकं प्रपेदे प्राप्तः। किं कृत्वा ।] तव शतराजीमाशु भित्त्वेतस्ततः क्षिप्त्वा । किंभूताम् । महाबलत्वेन दृढ. व्यूहत्वेन च ब्यहेपि दिनद्वयेपि दुर्भेदाम् । समिदृषदवत् । यथा समिधः काष्ठानि दृषदश्च दुर्भेदाः स्युः ॥
ऋक्सामे । ऋग्यजुषम् । धेन्वनडुह । वाङ्मनस । अहोरात्र । रात्रिंदिवम् । नक्कंदिवम् । अहर्दिवम् । उर्वष्ठीवे । पदष्टीवे । अक्षिध्रुवे । दारगवाः। एते "ऋक्साम." [ ९७ ] इत्यादिना निपात्याः ॥
चवर्ग । अस्थित्वच ॥ दें। समिट्टषद ॥ष । मांसास्रविपुषैः॥ह । गोगोदुह । इत्यत्र "चवर्ग०" [ ९८ ] इत्यादिना-अत् ॥ शतराजीम् । व्यहे । अत्र "द्विगोरबोट" [ ९९] इत्यत् ॥ सेनानीः खांस्ततर्जाथ द्यायुषं व्यायुषं न वा । घ्यञ्जलत्र्यञ्जलवाह त्या जीविताः स्थ किम् ॥ १२१॥
१२१. अथ सेनानीः खांस्ततर्ज । यथा द्वयोरञ्जल्योः समाहारो यजलमेवं यजलम् । द्वन्द्वे उपचारात्तत्परिमाणं यत्स्वर्ण तदह त्या दिवसे भृतिर्येषां ते हे व्यञ्जलव्यञ्जलखर्णाह त्या हे स्वर्णभृताञ्जलीनां द्वयं त्रयं वा जीविकां दिने दिने लब्धारो न व्यायुषं वर्तमानजनायुरपेक्षया न द्वे आयुषी स्तो न वा व्यायुषं न वा त्रीण्यायूंषि सन्त्यर्थाद्वस्तत्किं जीविताः स्थ जीवथ । अद्य श्वो वा मृत्युर्भाव्येव तस्मात्स्वजीवितनिरपेक्षं युध्यध्वमित्यर्थः ॥
१एता । म'. २ ए च बाहे'. ३ सी ये दु. ४ सी अहर्दि'. ५ ए द । ष । मां. ६ सी रनबो'. ७ ए नानी खां तस्ततः । य. ८ सी
रात्प. ९ए वे . १० ए भृवीता. ११ सी यं वा. १२ सी "वितास जीविथ. १३ सी 'त्युमाव्ये. १४ ए भवेत. १५ एध्यमि'.