SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ [है० ७.३.९७.] एकोनविंशः सर्गः । ५४९ द्वन्द्वात् । स्त्रीपुंस । कर्मधारय(या)त् । स्त्रीपुंसान् । इत्यत्र "स्त्रिया:०" [ ९६ ] इत्यादिना-अत् ॥ ऋक्सामे ऋग्यजुषं वा केपि जीवातवे जगुः। तृणं धेन्वनु(न)डुहवक्षे(त्के?)प्यधुर्मार(न?)वा रदैः॥११६॥ ११६. स्पष्टः । किं तु जीवातवे जगुर्जीवनाय ब्राह्मणीबभूवुरित्यर्थः ॥ ऊर्वष्ठीवे पदष्ठीवेक्षिभ्रुवे च कृतव्रणः(णाः)। त्यक्तदारगवा नेशुस्तेहोरात्र व(व्रणार्दिताः॥११७ ॥ ११७. स्पष्टः । किं तूर्वष्ठीवे ऊर्वे (ो)र्जान्वोश्च केचित्कृतव्रणाः पदष्ठीवे केचिच्च । पादयोर्जान्वोश्च कृतव्रणा इत्यर्थः ।। रात्रिंदिवमिवार्को भानक्तंदिवमिवानलः। अवाङ्मनसगम्यौजा बल्लालो वा(लोथा)भ्यधावत ॥ ११८ ॥ ११८. [ अथ बल्लालोभ्यधावत । ] कीहक्सन् । न वाङ्मनसेन वाचा मनसा च गम्यं परिच्छेद्यमोजस्तेजो यस्य सोतिप्रचण्डप्रतापोत एव च रात्रिंदिवं सर्वदा योर्कः स इव तथा नक्कंदिवं सदा योनलोग्निः स इव भाजाज्वल्यमानः ॥ गोगोदुहवदासाकान्मन्वानोहर्दिवं च सः । शरैस्तुतोद कीर्णास्थित्वचमांसास्रविग्रुपैः ॥ ११९ ॥ ११९. स बल्लाल आस्माकान्भटान्गोगोदुहवद्गोगोपालानिव नि:सत्त्वान्मन्वानः सञ् शरैः कृत्वाहर्दिवं सदा तुतोद विव्यते(थे)। किंभूतैः । कीर्णे विक्षिप्ते अस्थित्वचमस्थीनि च त्वचश्च मांसास्रविपुषं च मांसं चालविग्रुषो रक्तबिन्दवश्च यैस्तैः ॥ समिट्टपदवद्भित्त्वाशु दुर्भेदां यहेपि हि । शतराजी तवाथारिः प्रपेदे दण्डनायकम् ॥ १२०.॥
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy