________________
५४८
व्याश्रयमहाकाव्ये
[कुमारपाल:
सेनानीरधिशरदं शशीवाधितदं बभौ ।
व्याधो वोपशुनं निघ्नन्विनोपजरसं द्विषः ॥ ११३ ॥ ११३. सेनानीरुपजरसं जरायाः समीपं विना वर्तमानांस्तरुणानित्यर्थः । द्विषो निन्नन्सन्नधितदं तेषु स्वराजस्वाहादकत्वाद्वभौ । यथा शश्यधिशरदं शरत्काले भाति । यथा वा व्याध आखेटिक उपशुनं शुनां समीपे भाति ।।
तदास्त्राणामनुगवानोभिः पांशुस्तथोद्धतः । यथा सरजसं मृत्युमहोक्ष इव जनसे ॥ ११४ ॥ ११४. तदास्त्राणां सत्कैरनुगवानोभिर्गा (ग) अन्वायतैः शकटैः कृत्वा पांशुस्तथोद्धत उच्छलितो यथा निबिडं रणोा व्याप्तत्वान्मृत्युयमो महोक्ष इत्र सरजसं रजसा सकलं यथा स्यादेवं जग्रसेनेकसुभटादीनभक्षयत् ॥
नष्टाञ्जातोक्षद्धोक्षस्त्रीपुंसानिव मालवान् ।
न जन्नुस्तावकाः शुद्धक्षत्रस्त्रीपुंसजा भटाः ॥ ११५ ॥ ११५. स्पष्टः । किं तु जातोक्षस्तरुणवृषभः । स्त्री चासौ पुमांश्च स्त्रीपुंसो नपुंसकः । यथैते रणकातरत्वेन नश्यन्ति तथा नष्टान् । शुद्धक्षत्रस्त्रीपुंसजाः । शुद्धं ब्राह्मणत्वादिजात्यासंकीर्ण(ण) क्षत्रं राजबीजं यस्य तद्यत्स्त्रीपुंसं तस्मान्जाताः शुद्धक्षत्रिया इत्यर्थः ॥
अधिशरदम् । अधितदम् । अत्र “शरदादेः" [ ९२ ] इत्यत् ॥ उपजरसम् । अत्र "जराया जरस् च" [९३ ] इत्यत् । जरसादेशश्च ॥
सरजसम् । उपशुनम् । अनुगव । इत्येते "सरजस०" [९४ ] इत्यादिना निपात्याः ॥
जातोक्ष । महोक्षः । वृद्धोक्ष । इत्यत्र “जात." [ ९५] इत्यादिना-भत् ॥