________________
( है. ७.३.९१.] एकोनविंशः सर्गः ।
५४७ उपनद्युपगिपर्य(गिर्य)न्तर्नदमन्तगि(नि)रं गतान् । तेध्याग्रहायणीवोडूम्ना(ला)नानाहन्खकान्भटान् ॥ ११० ॥
११०. स्पष्टः । किं तु ते नृपाः । यथाध्याप्रहायणि मार्गशीयाँ हिमेन व्याप्तव्योमत्वेनोडवस्तारा म्लानाः स्युरेवं म्लानान् ॥
तेधियुत्पत्यसुहृदं प्रससुः सो गर्जिताः ॥
अध्याग्रहायणमुपपौर्णमासं यथाब्धयः ॥ १११॥ १११. ते नृपा अधियुद्रणे प्रत्यसुहृदं शत्रूनाभिमुख्येन लक्ष्यीकृत्य प्रसञः प्रसृताः । किंभूताः सन्तः । सोर्जाः सबला ये गर्जिताः कृतासिंहनादाः । यथाध्याग्रहायणं मार्गशीर्षपूर्णिमायामुपपौर्णमासं पौर्णमास्याः समीपे च श्वेतचतुर्दश्यां कृष्णप्रतिपदि वेन्दोरुदितत्वेना. ब्धयः सोज(ज)गर्जिताः सन्तः प्रसरन्ति ॥
अन्वगाद्दण्डनेताधिपौर्णमासीन्दुरुक्स तान् । इदं पञ्चनदं सप्तगोदावरमिति बुवन् ॥११२ ॥ ११२. अधिपौर्णमासीन्दुरुग् रणाय भूभुजा(जां) व्यावर्तनेतिप्रमुदितत्वात्पूर्णिमाचन्द्रोज्ज्वलविकसितमुख(खः) स दण्डनेता तान्भूभुजोन्वगात् । कीहक्सन् । उत्साहनाय ब्रुवन् । किमित्याह । इदं रणं वर्गहेतुत्वात्पञ्चनदसप्तगोदावरतीर्थयोस्तुल्यमिति ॥
अन्तर्गिरम् । उपगिरि । अन्तर्नदम् । उपनदि । उपपौर्णमासम् । अधिपीर्णमासं(सि) । अध्याग्रहायणम् । अध्याग्रहायणि ॥ अपञ्चमवर्य । प्रत्यसु. हदम् । अधियुत् । अत्र "गिरि०" [ ९० ] इत्यादिना-अत्( अद्वा)।
पञ्चनदम् । सप्तगोदावरम् । अत्र "संख्यायाः०" [११] इत्यादिना-अद्वा (भद)॥