________________
५४६
ब्याश्रयमहाकाव्ये
[ कुमारपालः
संतमसे। अवतमस । अन्धतमसा । इत्यत्र "[सम]व." [८०] इत्यादिना-अत् ॥
अतप्तरहसाः । अनुरहसः । अवरहसम् । अत्र "तप्त." [८१] आ(इत्या)दिना-अत् ॥
प्रतिसामः । अनुसामः । अवसामेन । प्रतिलोमः । अनुलोमः । अवलोम । इत्यत्र "प्रत्यनु०" [ ८२ ] इत्यादिना-अत् ॥
ब्रह्मवर्चसम् । [हस्तिवर्चसम् । राजवर्चसम् ।] पल्यवर्चसम् । अत्र "ब्रह्म" [३] इत्यादिना-अत् ॥ प्रत्युरसम् । अत्र "प्रते०" [ ८४] इत्यादिना-अत् ॥
गवाक्ष । इत्यत्र "अक्षणोप्राण्यङ्गे" [ ८५] इत्यत् ॥ अप्राणा(ण्य)ङ्ग इति किम् । [उपाक्षि]॥
प्रत्यक्षं नः समक्षं च सैन्ये क्षुण्णे परोक्षवत् ।
कस्माद्रक्ष्यन्ति तेन्वक्षं कटाहासगर्भितैः ॥ १०८ ॥ १०८. स्पष्टः । किं त्वन्वक्षं सकललोकप्रत्यक्षम् ॥ समक्षम् । कटाक्षः । इत्यत्र "स(सं)कटाभ्याम्" [ ८६] इत(त्योत् ॥ प्रत्यक्षम् । परोक्ष(क्ष)। अन्वक्षम् । अत्र "प्रति०" [८७] इत्यादिना-अत् ॥ प्रतिराज वदत्येवं सेनान्यां तेपि भूभुजः । अध्याजिकर्म निश्चिक्युः प्रतिवम कृतादराः ॥१०९॥
१०९. स्पष्टः । किं तु प्रतिराजं नृपं नृपं प्रति । अध्याजिकर्म रणकर्मविषये । निश्चिक्युर्निश्चयं चक्रुः । प्रतिवर्म(म) सन्नाहं प्रति सन्नाहामिमुख्येन लक्ष्यीकृत्य वा । ते नृपाः ॥ प्रतिराजम् । अत्र "अनः" [ ८८ ] इत्यत् ॥ अभ्याजिकर्म । प्रतिवर्मम् । अत्र "नपुंसकाद्वा" [ ८९] इति वा-अत् ॥