________________
५५२
व्याश्रयमहाकाव्ये
[कुमारपालः]
इस्वत्वे त्रिखारेः । स्त्रीत्वमप्यन्ये । तन्मते पूर्ववद्रस्वत्वे "इतोक्त्यर्थात्" [ २. ४. ३२ ] इति ब्यां च त्रिखारी ।
अर्धखार्यर्धखारेण भूत्वा खारीव ते स्वकैः । द्विनावव्यूहवन्तोर्धनावव्यूहं रिपुं व्यधुः ॥ १२४ ॥ १२४. ते नृपा रिपुं बल्लालं व्यधुः । किंभूतम् । नावोर्धमर्धनावं तद्वब्यूहः सैन्यरचना यस्य तं नावाकारस्य व्यूहस्य तत्सैन्यस्य संबन्धिनोर्धस्य हननेनार्धनावाकारव्यूहम् । किं कृत्वा । स्वकै टैः कृत्वा द्वयोर्नावोः समाहारो द्विनावं तदाकारो यो व्यूहः सोस्त्येषां द्विनावव्यूहवन्तो भूत्वा । यथार्धखारि खार्या अर्धमर्धखारेण खार्या अर्धेने खारी स्यात् ॥ अर्धखारेण । अर्धखारि । इत्यत्र "वार्धाच" [ १०३ ] इति वा-अट् ॥ अर्धनाव ॥ द्विगोः । द्विनाव । इत्यत्र “नावः" [ १०४ ] इत्यद ॥
सोचन्तिपुंगवः पश्चराज्या हतमहासखः।
सेनान्यो गूर्जरब्रह्मस्यान्वक्षं पातितो गजात् ॥ १२५ ॥ १२५. स्पष्टः । किं तु स बल्लालोवन्तिपुङ्गवो मालवश्रेष्ठः पञ्चराज्या पञ्चानां राजा संहत्या का पातितः । गूर्जरब्रह्मस्य गूर्जरेषु देशे ब्रह्मा गूर्जरब्रह्मस्तस्य गूर्जरा(र)बावासिद्विजस्य सेनान्यः ॥ पुंगवः । अत्र "गोः०" [ १०५ ] इत्यादिना-अ, ॥ पञ्चराज्या । महासखः । अत्र "राजन्सखेः" [ १०६ ] इत्यत् ॥ गूर्जरब्रह्मस्य । इत्यत्र "राष्ट्र०" [ १०७ ] इत्यादिना-अट् ॥
१ए वः पुंवरा.
१ए लाभं व्य. २ सी तब्बू. ३ सी "स्य सः तं. ४ सी वा द. ५ सी 'न कृत्वारों'. ६ ए राज्यां प. ७ सी "शां हां क. ८ ए त्या कीर्त्या पा. ९ए रत्वावासिज्जम्य से'. १० सीट् । अको'.