SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५४२ व्याश्रयमहाकाव्ये [ कुमारपालः] किंराजानम् । अत्र "न किमः क्षेपे" [७० ] इति वक्ष्यमाणः समासान्तोत् न स्यात् ॥ अराजानौ । अत्र "न" [७१] इत्यादिना समासान्तो न ॥ सुराजन् । अतिराजन् । अत्र "पूजा." [७२ ] इत्यादिना .टात्प्राक् समासान्तो न ॥ आसन्नबहुभिः । अत्र "बहो." [ ७३ ] इति डप्रसङ्गे डः कच्च न ॥ अस्यसि । इत्यत्र “ईच्युद्धे" [ ७४ ] इतीच् ॥ द्विदण्डि । द्विमुशलि । इत्येतो "द्विदण्ड्यादेः(दिः)" [७५] इति निपात्यौ ॥ तसोक्तचैंरिवत्विग्भिः श्रीपुरैः क्ष्वेडिभिर्भटैः । प्रा(आ?)रेभेसद्धलं होतुं समीपपथरोधिभिः ॥ १०१॥ १०१. उक्त.रुच्चारितमबविशेषैः सद्भिर्ऋत्विग्भिर्यथा हव्यं होतुमारभ्यते तथा तस्य भटैबल्लालस्य वीरैरस्मदलं होतुमारेभे हन्तुमारब्धमित्यर्थः । किंभूतैः सद्भिः । श्रीपुरैः श्रियश्चतुरङ्गबलविक्रमादिलक्ष्म्याः पूर्भिनगरैर्निवासैरित्यर्थः । तथा श्वेडिभिः सिंहनादवद्भिस्तथा संगता आपो यत्र तत्समीपं तडागादि तस्य ये पन्थानः प्रवेशमार्गास्तद्रोधिभिर्जलस्थानानि रुद्धा स्थितैः । यद्वा रुद्धा(?) समीपान्निकटान्पथो रुन्धानरस्मत्सैन्यस्य निकटमागतैरित्यर्थः ॥ ऋच् । उक्तः ॥ पुर। श्रीपुरैः ॥ पथिन् । समीपपथ ॥ अप् । समीप । इत्यत्र "ऋक्पूर०" [५६ ] इत्यादिनी-अत् ॥ १सी अत्ररा'. २ ए जानं । . ३ ए न् । अ. ४ सी होड ई. ५ए °सङ्ग डः. ६ए इच् । द्वि. ७ए °ण्ड्यादिभिः इनिपा. ८सी "गकलावि'. ९ सी यः । यथा. १० सी "नि रदस्थि. ११ सी उचैं:. १२ सी नाक ॥ ना.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy