________________
५३२
व्याश्रयमहाकाव्ये [कुमारपाल इक-इला(ला:) ॥ वावचनात्कबपि ॥ देवदत्तक ॥ अजातरिति प्रायिको निषेध इत्यन्ये । व्याघ्रिल मिति हि दृश्यते । तन्मते बहुस्वरादित्यपि प्रायिकम् । स्वमते तु व्याघ्रकमित्येव भवति ॥ बहुस्वरादिति किम् । रामक ॥
उपडम् । उपकोपियौ । उपिकम् । उपिलम् । अत्र "वोप०' [३६] इ. त्यादिना ड-अकौ चकारादिय-इक-इलाः । वावचनाकबपि । उपेन्द्रदत्तकौ ॥
मातृय । मातृक । मातृलान् ॥ भानुयम् । भानुकम् । भानुलम् । अत्र "ऋवर्ण." [ ३७ ] इत्या दिनानुकम्पायां विहितस्य स्वरादेः प्रत्ययस्यादेर्लुक् ऋ. वर्णोवर्णान्तं च प्रकृत्या तिष्ठति ॥
देवकां व्याघ्रकां पृच्छ वाचियां षडियां प्रियाम् ।
कुवियां कहियां शेवलियां वाथ विशालियाम् ॥ ८२ ॥ ८२. हे श्यालक प्रियां पृछ । कां कामित्याह । देवदत्तायाः "ते लुग्वा" [ ३. २. १०८] इत्युत्तरपदलोपेनुकम्पिता देवी देवका । अत्र कपि पित्वात्पुंवद्रावे नित्त्वादाप्परेपि ककार इत्वं न स्यात् तां देवकां तथा व्याघका व्याघ्राजिनां व्याघ्रमहाजिनां वा । तथा वाचियां वागाशिषं वाग्दत्तां वागाशीर्दत्तां वा । तथा षडियां षडङ्गुली तथा कुवियां कुबेरदत्ताम् । तथा कहियां कहोडां वा । तथा शेवलियां शेवलदत्ताम् । अथ तथा विशालियां विशालदत्ताम् । सर्वा अप्येता अनुकम्पिता(ताः)॥
१सी विया की.
१ए 'इल । वा. २ सी को । पिक'. ३ ए कलाः । वाच'. ४ सी "तृला. ५ सी र्णान्तरप्र. ६ सी च्छ । कारे इत्वं. ७ ए कति पि. ८ ए दावि नि'. ९ ए त्वं च स्या. १० सीनां वा. ११ ए ङ्गुली त. १२ सी कुबेर'.