________________
५३०
व्याश्रयमहाकाव्ये
[ कुमारपालः]
दिग्धकः पङ्ककेनासि बालकोत्तिष्ठक त्वकम् ।
ददके गुडधानाकाः ककिं देविय देविक ॥ ७९ ॥ ७९. हे बालक त्वकं पङ्ककेन पङ्किलभूमावेवं पाताल्लग्नेन कर्दमेन दिग्धकोसि लिप्तोसि । अत उत्तिष्ठक । हे देवियानुकम्पितदेवदत्त । तूष्णीकत्वेनाभाषमाणत्वात्पुनः संबोधयति । हे देविकानुकम्पितदेवदत्त । अभिधान्तरेण वा संबोधनम् । हे अनुकम्पितदेवसिंह ककिं किं तुभ्यं गुडधानाका ददके ददामि ॥
व्याघ्रक व्याघ्रिलं मित्रं देवदत्तक देविल । उपडं रामकोपेन्द्रदत्तकावुपकोपियौ । ८० ॥
उपिकं वोपिलं वा मातृयमातृकमातृलान् । भानुयं भानुकं भानुलं वा संपृच्छय मार्गय ॥ ८१ ॥ ८०, ८१. प्राग्वद् । हे देवदत्तक हे देविल मार्गय परं संपृच्छय । कान् । व्याघ्रकं व्यालिं मित्रं व्याघ्राख्यौ द्वौ वयस्यावित्यर्थः । तथोपडमुपेन्द्रदेवम् । तथा रामकोपेन्द्रदत्तको [*रामोपेन्द्रदत्तौ । तथोपकोपियावुपाग्निशर्माणौ । तथोपिकं वोपाशीर्दत्तं वा । तथोपिलं
१ए 'य वेविकः । हे. २ बी विकं । हे. ३ ए व्याघ्रलं. ४ बी पि यया. ५ सी पिमं वो. ६ एय ॥ किं व्या.
१सी क त्वं प. २ बी त्वप. ३ सीणत्पु. ४ सी रे वा. ५ सी म् । अ. ६ बी °च्छय । क्यत् । व्याधिकं. ७ सी व्याघ्रिलं. ८ए नितं. मि'. ९सी वास्यो दौ. १० सी दश. ११ सी पासीई'. १२ ए तथापि .
___ * विंशतितमसर्गस्थचतुर्विंशतितमपघटीकायां दर्शितधनुश्चिकपर्यन्तं बीपुस्तकसपत्राणि नम्मानि॥