________________
[है. ५.१.११९.]
एकादशः सर्गः। खरिंधमो नु दुग्धार्थी पश्चात्तापरकरंधमः ।
भुवः करंधयः सन्यां त्वयि पाणिंधयः सति ॥ ८३ ॥ ८३. त्वयि सति राज्यधुराधौरेये विद्यमानेपि पाणिंधयो बालकः सन् यदि भुवः करंधयो राजग्राह्यभागग्राही राजाहं स्यां तदा पश्चात्तापाद्राज्यप्रतिपालनानलंभूष्णुत्वाद्युत्थाकि मया तदा पिता प्रव्रजन्न निवारित इति रूपात्करंधमो हस्तयोर्मर्दकः स्यां यथा दुग्धार्थी दुग्धपानमिच्छन्नरः खरिंधमो गर्दभी दुहन्सन पश्चात्तापात्करौ मृद्गाति महाकष्टदोह्यत्वादोहनेपि दुग्धस्यातिविरसत्वेनापेयत्वात् ॥
पाणिधर्महामात्रैः कुञ्जरैः कूलमुद्रुजैः । कूलमुद्वहसिन्धर्मिरयैर्गोभिर्वहलिहैः ॥ ८४ ॥ रथैरभ्रंलिहेहेमाबहुंतुदयुगैरपि । द्विपामरंतुदै त्यैस्तिलानां नु तिलंतुदैः ॥ ८५ ॥ तैर्ललाटंतपैः शत्रोर्यशोविधुविधुंतुदैः। शर्धजहानसंपुष्टैर्वेगवातमजैर्हयैः ॥ ८६ ॥ दारैरसूर्यपश्यैश्चेरंमदद्युतिभूषणैः ।
अनुग्रंपश्य किं मे चेन्न पश्येयं तवाननम् ॥ ८७॥ ८४-८७. अनुग्रंपश्य सौम्यविलोकक चेत्तवाननमहं न पश्येयं १ सी डी पाकर'. २ ए करिंध'. ३ ए धममहा. ४ ए वहलि'. ५ ए द्विषां म. ६ सीतुदैः । ते'. ७ ए डी स्तिलांनां. ८ सी डी धुभू. ९ए सी डी 'नुग्रप. .
१बी ये त्वयि वि. २ ए तानव'. ३ बी इत्यरू. ४ ए मैदकः. ५ ए सी डी भी दु. ६ सी डी होहितेपि. ७ ए अमुग्रं. ८ सी डी ग्रं सौ'. ९ डी नम.