________________
४२
ब्याश्रयमहाकाव्ये
[ जयसिंहः]
पुनरिति पूर्वोक्तं राज्यं गृहाणेति वचः श्रोता सन्न वरं न श्रेष्ठः । यतः कीदृशम् । तापकृदसुखकरमत एव नाडिंधमं शिराणां संतापकं तथा नाडिंधयं संतापातिरेकोत्पादेन शिराणां ग्रासकम् । एतद्धि वच:श्रवणं पितर्यभक्तिसूचकं तेच्चाहं कुर्वाणः श्वादिभ्योपि निकृष्टस्तेपि हि स्वमातापित्रोभक्ताः स्युरित्यर्थः ।।
घटिंधममुष्टिंधमनासिकंधमनिस्त्रपाः । लुभ्यन्ति पितृराज्येतिवातंधयखरिंधयाः ।। ८१ ॥ ८१. पितृराज्ये लुभ्यन्ति । के क इत्याह । घटिंधमा दर्दरवादका मुष्टिंधमा मुष्टिवादका भण्डविशेषा एवं नासिकंधमा अपि तद्वन्नित्रपा निर्लज्जा नरास्तथा निर्विवेकताद्यतिशयेन वातंधयान्सर्पान्मृगान्वा खरिंधयांश्च गर्दभानतिक्रान्ताश्च ।।
नासिकंधयमुष्टिंधयांम्बास्तनघटिंधयः ।।
अहं तेद्यापि शिष्योमि नैतद्वातंधमं वचः ॥ ८२ ॥ ८२. हे ताताद्याप्यहं ते शिष्योनुशास्यः शिक्षणीयोस्मि वर्ते यतो नासिकंधयी स्नेहातिरेकान्मदीयनासाचुम्बिनी मुष्टिंधयी मन्मुष्टिचुम्बिनी याम्बा माता तस्या यो स्तनौ ताभ्यां घटिंधयो घटतुल्यस्तनपायीत्यर्थः । क्षीरकण्ठ इति वाक्यार्थः । क्षीरकण्ठो हि शिक्षणीयः स्यात् । एतद्वचः शिष्योस्मीति वचनं वात इव वातः फल्गुरर्थस्तं धमति वक्ति वातंधमं नास्ति सत्यमेवेदं वच इत्यर्थः ॥
१ए पाः । तुल्यन्ति. २ ए वातिध. ३ ए बी सी धया । पि. ४ ए नाशिकं. ५ ए सी प्यान्धास्त°. ६ बी धयाः ।
१ए सी कम. २ ए सी तन्वाहं. ३ बी पि स्व०. ४ ए मात्रापि°. ५ सी भक्त्या स्यु. ६ डी के ई. ७ ए नाशिकं. ८ सी धयाअ ग° डी धयाश्च. ९ ए यांअ ग'. १० ए °न्मुष्टिं वुविनी. सी डी 'न्मुष्टिं चु०. ११ बी पानीत्य. १२ डी कण्ठो हि. १३ सी डी गीय स्या. १४ ए वाप्त इ०.