SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२६ व्याश्रयमहाकाव्ये [कुमारपालः] लोहितको मणिपटौ । अत्र "लोहितान्मणौ" [१७] इति कः ॥ लिङ्गविशिष्टस्यापि ग्रहणालोहिनिका मणी ॥ रक्त । लोहितको मणिपटौ ॥ अनित्यवर्णे । क्रुधा लोहिनिका दृक् । अत्र "रक०" [१८] इत्यादिना कः ॥ स्वार्थे रक्ते । कालकांशुक । अनित्यवर्णे । वैलक्ष्येण कालकं मुखम् । अत्र "कालात्" [१९] इति स्वार्थे कः ॥ रोमप्रावरणं वोढा शीतके नूष्णकेप्य॒तौ । विहानकालूनकाङ्गवियातकपशुन्यम् ॥ ७१ ॥ ७१. अयमनुवरो यथा शीतक ऋतौ शीतकाले रोमप्रावरणं शीतत्राणाय वहति तथोष्णकेप्यतावुष्णकालेपि रोमाण्यङ्गलोमान्येवातिसान्द्रत्वेनाङ्गाच्छादकत्वात्प्रावरणमाच्छादनं तद्वोढा वहति । विगतं हानं गमनं यस्य स विहानः स एव विहानकस्तथा लून एव लूनको लूनरोमा पशुन तथालूनकः सरोमा पशुस्तस्येवाङ्गमस्यालूनकाङ्गो लोमशाङ्गस्तथा. वियात एव वियातकश्च धृष्टो यः पशुरुरणः स यथा रोमाण्येव प्रावरणं शीतके नूष्णकेप्युतौ वहति । रोमशत्वादेवमुपहासः ॥ शीतके । उष्णक ऋतौ । अत्र "शीत." [२०] इत्यादिना स्वार्थे कः ॥ अलूनक । वियातक । इत्यत्र "लून." [२१] इत्यादिना स्वार्थे कः ॥ विहानशब्दादपीच्छन्त्येके । विहानक ॥ १बी गं बोढा. १सी हितिका. २ बी रक्त । लो'. सी रक्तौ । लो'. ३ ए हितिका. ४ ए स्वार्थों र. ५ ए शुका। . ६ सीतकोले. ७ ए वणं. ८ सी शुस्त'. ९ए "गो लाम. १० वी मसाङ्ग. ११ बी शुरूर'. सी 'शुरूरुणः. १२ बी मसत्वा'. १३ बी नकः । वि'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy