________________
५२४
ब्याश्रयमहाकाव्ये
[कुमारपालः
नकोयमेषामनत्यन्तं छिन्नकश्छिन्नकतमस्तत्तुल्यः कान्दविकश्ववत्सस्पृहं मुहुर्मोदकानामालोकनेन निर्लजत्वान्नक्रवर्धिततुल्य इत्यर्थः । अस्माभिः सहास्य कः संबन्धो येनायं निर्लज्जो मोदकान्वाञ्छतीत्यर्थः । जेमनवेलायां किल प्रधान मोदकादि भोज्यं यादृग्वरो लभते तादृगनुवरोपीत्येवं श्यालिकाद्या उपहसन्ति । हास्यवशादेव च बहुरक्ष इत्यादिविशेषणान्यसन्त्यप्यनुवरे लोकैः प्रयुज्यन्ते । एवं वक्ष्यमाणान्यपि ॥
अस्य केशद्वयी दृश्यादेश्यिकाविकवन्मुखे ।
प्रकृष्टच्छिन्नकस्यानुवरयं यावकदृशः ॥ ६८॥ ६८. यावकन्त्यावलक्तवदाचरन्त्यो दृशौ यस्य तस्य रक्ताक्षस्यास्यानुवरस्य मुखे दंष्ट्रिकाप्रदेशे केशद्वयी द्वौ वालौ दृश्यादेश्यिकातिलघुत्वेन कुत्सितेषदपरिसमाप्ता दृश्या यतोनत्यन्तं छिन्नंश्छिन्नको बहूनां मध्ये प्रकृष्टच्छिन्नकस्तस्य दंष्ट्रिकायामतिनिन्द्यं मुण्डितस्येत्यर्थः । अविकवद्यथाविकस्यच्छागस्य मुखे केशद्वयी दृश्यादेश्यिका स्यात् । मुण्डिवश्मश्रुत्वादेवमुपहासः॥ हरतिरूपम् । चौरसैंपः । अत्र "त्यादेच." [१०] इत्यादिना रूपम् ॥
कम्पतेकल्पम् । धत्तेदेश्यम् । बमोदेशीयम् ॥ पद्मकल्पे । वज्रदेश्येन । सीरिदेशीयः। अत्र “अतमबादे०" [११] इत्यादिना कल्पप्देश्यप्देशीपरः ॥ केचिद्देश्यं पितं नेच्छन्ति । तन्मते दृश्यादेश्यिका ॥
१बी ‘देश्यका'. २ ए "स्य मव. १ए पामेत्य. २ थी 'वं शालि. सी °वं शालका'. ३ ए पस'. ४ ए 'रन्त्यो दृशो य. ५ सी स्यानु. ६ बी दो बालौ. ७सी देशिका'. ८ ए का स्वाद. ९ सी नको. १० सी रूपं । म. ११ ए रूपपत् । क. १२ ५ "देशी.