________________
[है. ७.३.१०.]
एकोनविंशः सर्गः।
२३
६६. असौ वरः सीरिदेशीयो हलधरतुल्यः सन्पाणिना धत्तेदेश्यं च हलधरकर्तृकंकठोरपाणिधरणादीषदपरिसमाप्तमस्मत्सखी हस्तेन धारयति हलधरवत्कठोरपाणिना गृह्णातीत्यर्थः । इयं चातिमृद्वङ्ग्यस्मत्सखी च कम्पतेकल्पं कठोरकरग्रहणोत्थकष्टेनेषदपरिसमाप्त कम्पते । अत्रास्मिन्विषये वयं किं बमोदेशीयं किं वदामः । सर्वलोकसंमत्यास्मत्सखीमेवं पाणौ गृह्णतोस्य पुरो वयं न किमपि वक्तुं शक्ता इत्यर्थः । अथ वासौ वरः सीरिदेशीयो रूपाद्यतिशयेन बलभद्रतुल्यः सन्पाणिनेमां धत्तेदेश्यमनुरागेणास्याः कष्टभयादीषदपरिसमाप्तं धत्ते । इयं च कन्याभीष्टवरस्पर्शोत्थस्मरोद्रेकेण कम्पतेकल्पम् । अत्र च वयं किं बमोदेशीयम् । अस्माकमप्येतत्संमतमित्यर्थः । इत्यर्थो व्यज्यते ।।
बहुरक्षोनुवरोसौ प्रकृष्टः पटुकः सखि । वाञ्छतिच्छिन्नकतमो मनसा केन मोदकान् ॥ ६७ ॥
६७. हे सख्यसौ प्रत्यक्षोनुवरो वरमैनुगतो नरः केन मनसा केनाभिप्रायेण मोदकान्वाञ्छति । कीहक्सन् । बहुरक्ष ईषदपरिसमाप्तं रक्ष औदरिकतयों राक्षसतुल्य इत्यर्थः । अत एव प्रकृष्टः पटुको द्वयोर्वहूनां वा पटुकानां मध्ये प्रकर्षवान्कुत्सितः पर्दुर्बुभुक्षार्तमनस्कत्वेनातिकुपटुरित्यर्थः । अत एव चच्छिन्नकतमः । कुत्सितश्छिन्नश्छि
१ ए 'नुवारो'.
१ सी यो धत्ते'. २ ए कठो'. ३ ए रकर. ४ ए °ष्टेनैष'. ५ए °रः सैरि'. ६ ए वर्या किं. ७ सीम् । तेस्मा. ८ सी त्यों. ९ए 'त्यकोनु. १० सी मनसा. ११ ए कावान्छौं. १२ बी °या रक्ष. १३ सी 'टुके वांछति छिन्नकतमो मद. १४ ए टुर्बभु. बी टुबुभु.