________________
[ है.७.३.६.] एकोनविंशः सर्गः।
५२१ ६२. स्पष्टः। किं त्वियं कन्यका वा किंतरामतिशेते । इदमनयोर्वधू. वरातिशयनयोर्मध्ये रूपश्रीप्रकर्षणोत्कृष्टं स्वस्यातिशयनं यथा स्यादेवं किमुत्कृष्टा भवति । किं वेयमत्यर्थमतिशेत इत्यर्थः ॥
स गायन्तितमां तत्र मत्रानग्रेतरां द्विजाः।
प्रगेतमामिवाब्जेषूच्चैस्तमा हर्षिणोलयः ॥ ६३ ॥ ६३. स्पष्टः । किं तु स्म गायन्तितमां द्विजाः वनर्षिवदुद्वि(हि?). जानां मध्ये द्विजा अतिशयेन गायन्ति स्म । तत्र महे । अग्रेतरां द्वयोरंयकालयोर्मध्ये प्रकृष्टेयकालेतिप्रथममित्यर्थः । प्रगतमामतिप्रभात इत्यर्थः ॥
वध्वा उत्तमसख्योथैवं नर्मधवलाञ्जगुः ।
पटिष्ठो वश्चयतेसौ किंतमां नः पटीयसीः ॥ ६४ ॥ ६४. अथ पाणियोजनानन्तरं वध्वा अतिशयेनोत्कृष्टा उत्तमा याः संख्यस्ता एवं वक्ष्यमाणरीत्या नर्मधवलान्हासप्रधानानि गीतानि जगुः। तथा हि । असौ भैमिः पटीयसीरपि द्वयोः पट्टीमेश्योर्मध्येतिशयेन पटीरपि नोस्मान्कितमां वञ्चयते बहूनां वञ्चनानामिदं वचनमतिशयितं यथा स्यादेवं कथं नाम वञ्चयते । एवं सख्याः पाणिग्रहणेनायमस्मान्पश्यन्तीरेव वञ्चयत इत्यर्थः । अत एव कीदृक् । पटिष्ठो बहूनां पटूनां मध्येतिपटुः ॥
शुभतरः । शोभतरा ॥ विभज्ये । सांकाश्यकेभ्यो नागरेयकैः पूज्यतरैः ।
१ ए धूस्तैच्चमां. २ बी यति सो किं.
१ बी शयेन'. २ सीटं तस्या'. ३ बी यमित्यर्थमिति. ४ बी वर्षि'. ५°नर्षेव. ६ सी रमन. ७ ए टेतिका. ८ बी मामिति'. ९ बी ध्वानति'. १० ए सस्ता. ११ बी रास्योर्म'. . १२ ए चचना. १३ ए ए की. १४ एतराः। विभजो। संका.