SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२० व्याश्रयमहाकाव्ये [ कुमारपालः] __ अयं शुभतरः किं वासौ शोभनंतरा न्विति । दृष्टो वधूसखीवगैर्मातृवेश्माविशन्नृपः ॥ ५९ ॥ ५९. वधूवरयोर्मध्ये किमयं वरः सौन्दर्यश्रिया शुभतरः प्रधानतरः किं वासौ वधूः शोभनतरातिशोभमानेति हेतोर्वध्वाः सखीलोकैदृष्टः सन्नृपो मातृवेश्म सप्तानां मातृणां देवतानां गृहमविशत् ॥ तत्र पूज्यतरैः सांकाश्यकेभ्यो नागरेयकैः । आगात्पुरोहितोग्रेपि प्रीतः प्रीततरस्तदा ॥ ६० ॥ ६०. अग्रेपि भैम्यागमकारात्प्रागपि विवाहोत्सवेन प्रीतस्तदा भैम्यागमकाले तु प्रीततरः सन्पुरोहितोपि तत्र मातृगृह आगात् । कैः सह । नागरेयकैनगरे स्थानविशेषे भवैर्द्विजैः । किंभूतैः । सांकाश्यकेभ्यः सांकाश्ये पुरे भवेभ्यो द्विजेभ्यः सकाशात्पूज्यतरैः । नागरा हि द्विजाः सर्वद्विजेभ्योत्युत्कृष्टत्वेन प्रसिद्धाः ॥ किं पाणी पॉणिपादस्यांही वा मृदुतराविति । ज्ञातुं नूचैस्तरां सख्यो(ख्या)त्रोत्क्षिप्यानायि कन्यका ॥६१॥ ६१. स्पष्टः । किं त्वितीदमुच्चैस्तरामत्यन्तं ज्ञातुं नु वेत्तुमिवोत्क्षिप्योत्पाद्य सख्या कन्यकात्र मातृगृह आनायि ॥ अतिशेतेतरां न्वेषोतिशेते किंतरामियम् । पुरोधा इति विमृशंस्तयोः पाणी अयोजयत् ॥ ६२॥ - १ एनहरा. २ ए विशान्नृ. ३ ए 'त्पुरहि'. ४ बी प्रीतं प्री'. ५ सी पादस्यंही. ६ ए बोक्षिप्यानावि क. ७ बी न्यकाः । स्प. ८ बी शेषेतरा न्वे'. १सी °रः किं. २ ए वधू शो'. ३ बी भने'. ४ एखीलोंकै'. ५ बी °पि भीम्यागमनका. ६ सी °ला तु. ७बी मनका. ८ए तो त. ९ ए °काशकेभ्यः संका १० सीत्पूज्यैः पूज्य. ११ बी क्षिप्येत्पा.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy