________________
[ है० ७.३.५.] एकोनविंशः सर्गः। _
५१९ त्यक्त्वापूपमयं मौदकिकं च धवलान्दधुः ।
तत्रागायनपाशाश्च स्त्रीतमा विलसत्तमाः ॥ ५७॥ ५७. स्पष्टः । किं त्वपूपमयं मौदकिकं च त्यक्त्वापूपान्मोदकांश्च प्रकृतान्मुक्त्वा ॥
सूक्ष्मवस्वतमः श्रेष्ठतमथुलुकजन्मनाम् ।
ययौ गौरतमः सोन्तर्मित्वा लवणसंपुटम् ॥ ५८ ॥ ५८. स्पष्टः । किं त्वतिशयेन सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवत्रतमः । लवणसंपुटं लवणाग्निगर्भ शरावसंपुटम् ॥ दधिमयम् । अत्र "प्रकृते मयट्" [ 9 ] इति मयट् ॥ मङ्गलमये द्वारि । इत्यत्र “अस्मिन्" [२] इति मय: ॥ मौदकिकम् । अपूपमयम् । अगाणिक्याः । अगणिकामये । अत्र "तयोः" [३] इत्यादिना समूहवत्प्रत्ययाः स्युरिति “कवचि." [ ६. २. १४ ] इत्यादिनेकण् । "गणिकाया ण्यः" [ ६. २. १७ ] इति ण्यः । चकारान्मय च ॥
अगायनपाशाः । अत्र "निन्द्ये पाशप्" [४] इति पाशप् ॥ गौरतमः । विलसत्तमाः । अत्र "प्रकृष्टे तमप्" [५] इति तमप् ॥ जातिव्यवचनेभ्योपि गुणक्रियाप्रकर्षविवक्षया स्यात् । स्त्रियोमूर्या अपपाकादिखी. कार्य सुश्लिष्टाः कुर्वन्ति । स्त्रीतमा एता याः सुलक्षणा अपपाकादि गीतगानादि च स्वीकार्य कुर्वन्ति । व्यान्तरसमवायिना च प्रकृष्टेन गुणेन प्रकृष्टे द्रव्ये तद्वतः प्रत्ययः स्यात् । सूक्ष्मवस्त्रतमः । प्रकर्षप्रत्ययान्ताच प्रकर्षस्थापि प्रकर्षविवक्षायां प्रत्ययः स्यात् । श्रेष्ठतमथुलुकजन्मनाम् ॥
१ बीन्ददुः । त'.
१५ बी यं मोद'. २ बी पूपोमोद'. ३ बीन शूक्ष्मा'. ४ बी तेमय'. ५ बी ट् । सोद. ६ ए 'नामस'. ७ सी पक्रियावि'. ८ ए 'पूपा. बी पूपंका'. ९ बी पूपा. १० ए °टे द्र. ११ सी पवि'.