________________
व्याश्रयमहाकाव्ये
[कुमारपालः
५२. स नृपो भैमिः प्रीणेभ्योपि पुराणेभ्योपि प्रणं पुराणमतिवृद्धं विवाहहोत्रीय विवाहस्य ऋत्विजं विवाहेग्निकारिकाकारकमान्नपुरोहितं विधीन्विवाहकार्याणि पप्रच्छ । कीदृशः । अप्रत्नोप्यपुराणोपि युवापि माहात्म्यात्प्रतना देवतेचे पुराणदेव इव । चिरकालीनदेवता ह्यतिसप्र. भावा स्यात् ॥
प्रणम् । प्रीणेभ्यः । प्रतना । अप्रत्नः । अत्र "प्रात्" [ १६१ ] इत्यादिना स्वार्थे न-ईन-तन-त्राः ॥
देवता । इत्यत्र “देवात्त" [ १६२ ] इति तद ॥ होत्रीयम् । अत्र "होत्राया ईयः" [ १६३ ] इतीयः॥
आवसथ्यं श्रियः प्राज्ञो भैषज्यं विश्वभोरुजाम् । सोसजदैवतश्रौत्रः कर्णलक्ष्मकुलाग्रणीः ॥ ५३ ॥
५३. स भैमिर्विवाहोचितनेपथ्यविशेषेणातिशयितरूपादिलक्ष्मीकस्वावतस्येव देवस्येवं श्रौत्रमङ्गं यस्य स तथा सन्नसजद्विवाहार्य प्रगुणो. भूत् । कीदृक् । प्राज्ञस्तथा विश्वभीरुजां जगद्भयरोगाणां भैषज्यमौषधं जगतः शरणमित्यर्थः । अत एव श्रियः संपत्तीनामावसथ्यमावासोत एवं च कृष्ण एव कार्णो मृगो लक्ष्म चिह्नं यस्य स कार्णलक्ष्मा चन्द्रस्तस्य यत्कुलं तत्रांग्रेणीः ।। १ बी रुजम्. २ ए कार्णल'. बी काष्णं ल'.
१ बी मिः प्राणे २ सी कारिक'. ३ सी व ई. ४ ए °णेभ्य । प्र. ५ सी देवतात्त. ६ ए वस्ये. ७ बी सी व श्रोत्र. ८ सी °य गु. ९ ए यः सर्वपत्नीना. १० बी 'मावासपथ्य. ११ ए व कृ. १२.बी लक्ष्म्य चि. १३ बी कार्णलक्ष्म्या च'. १४ सी लक्ष्म्यां च . १५ बी सी 'ग्रणी । शं.