________________
५०८ व्याश्रयमहाकाव्ये
[कुमारपालः] कार्यसारो यस्यां ताम् । यथा कश्चित्दमां भूमि प्रतीच्छति । किंभूताम् । द्वितीयं वारं कृता द्वितीयाकृता द्वितीयं वारं कृष्टेत्यर्थः । तथा शम्ब तिर्यकृता शम्बाकृतानुलोमं कृष्ट्वा पुनस्तियकृष्टेत्यर्थः । अन्ये त्वाहुः । शम्बसाधना कृषिरिति शम्बेन हलभेदेन कृष्ठेत्यर्थः । तथा वीजैः कृता वीजाकृतोप्ते पश्चाद्वीजैः सह कृष्टेत्यर्थः । विशेषणकर्मधारये तां तथोप्तं कार्याय धान्यनिष्पत्तिप्रयोजनाय बीजं यस्यां ताम् ।।
दूतः शीघ्रं ययौ काले द्विगुणाकर्तुमुर्वराम् ।
कः शम्बाकृतकुलिवः समयाकुरुतेथ वा ॥ ३७॥ ३७. दूतः शीघ्रं ययौ । अर्थान्तरमाह । अथ वा लोहकाञ्ची वर्धकुण्डलिका वा शम्बमस्य क्रियते शम्बाकृतं कुलिवं हलविशेषो येन स तथा क्षेत्रकर्षणाय संजितहलं: कः कर्षकः काले वर्षासु समयाकुरुते समयं कालक्षेपं करोति । किं कर्तुम् । उर्वरा सर्वसस्यात्यां भूमि द्विगुंणाकर्तुं द्विगुणं कर्षणं कर्तुं द्विगुणं ऋष्टुमित्यर्थः ।
द्वितीयाकृत । शम्बाकृत । बीजाकृताम् । अत्र "तीयशम्ब०" [१३५] इत्यादिना डाच् ॥ एके तु शम्बाकृतकुलिव इत्युदाहरन्ति ॥ द्विगुणाकर्तुम् । अत्र "संख्या०" [ १३६ ] इत्यादिना डाच् ॥ समयाकुरुते । अत्र “समयाँद्" [ १३७ ] इत्यादिना डाच् ॥
१ बी कृष्लेत्य. २ बी ति वा श'. ३ ए कृतो'. ४ ए बी शेषेण. ५ सी थोप्तां का. ६ सी न्यत्ति'. ७५ वर्द्धकु. सी वर्धकु. ८ सीन था. ९ए सर्जितहलकर्ष. १० एलः कर्ष. ११ ए समाया'. १२ वी सी भूमिदि. १३ ए . गुणां क. १४ सी गुणक. १५ बी तीयेश. १६ एमकु. १७ए 'यादिना.